________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
नृपतिः स तु कौलोऽभून्महारम्भपरिग्रहः । धुर्योऽनार्येषु कार्येषु, निर्दयश्च कृतान्तवत् ॥ दुराचारोऽपि रौद्रोऽपि स राज्यं बुभुजे चिरम् । पूर्वोपार्जित पुण्यानां, फलमप्रतिघं खलु ॥ तस्यावसानसमये, जज्ञे धातुविपर्ययः । आसन्ननरकक्लेशवर्णिकामात्रसन्निभः || ४१२ ॥ आसीत् कण्टकशय्येव, तूलशय्याऽस्य दुःखदा । निम्बवद् विरसान्यासन्, भोज्यानि सुरसान्यपि ॥ ४१३ || 5 चन्दनागरुकर्पूरकस्तूर्यः पूर्तयोऽभवन् । शत्रुवत् पुत्रमित्राद्या, शोरुद्वेगहेतवः ॥ ४१४ ॥ कर्णक्लेशाय गीतानि, बभूवुः क्रोष्टुनादवत् । पुण्यच्छेदेऽथवा सर्व, प्रयाति विपरीतताम् ॥ ४१५ ॥ सुखेतरैस्तं विषयोपचारैरतिदेः क्षणम् । कुरुमतीहरिचन्द्रौ, प्रच्छन्नं प्रत्यजागृताम् ॥ ४१६ ॥ चुम्ब्यमान इवाङ्गारैः, प्रत्यङ्गं दाहविह्वलः । रौद्रध्यानपरः प्रापदवसानं स भूपतिः ॥ ४१७ ॥ तस्यौर्ध्वदेहिकं कृत्वा, हरिचन्द्रस्तदात्मजः । अशिषद् विधिवद् राज्यं, सदाचारपंथाध्वगः ॥ ४१८ ॥ सोsavers फलं दृष्ट्वा तन्मरणं पितुः । धर्ममेव पुमर्थेषु तुष्टावार्कं ग्रहेष्विव ॥ ४१९ ॥ सुबुद्धिं बालसुहृदं, श्रावकं सोऽन्यदाऽऽदिशत् । धर्मविद्योऽन्वहं धर्मः श्रुत्वा शंस्यस्त्वया मम ॥ ४२० ॥ सुबुद्धिर्विधे नित्यं, तत्तथाऽत्यन्ततत्परः । अनुकूलनिदेशो हि, सतामुत्साहकारणम् ।। ४२१ ॥ प्रत्यहं हरिचन्द्रोऽपि धर्मं तत्कथितं भृशम् । श्रद्दधे पापभीतः सन, रोगभीत इवौषधम् ॥ ४२२ ॥ अन्यदा बहिरुद्याने, शीलन्धर महामुनेः । उत्पन्ने केवलज्ञानेऽभीयुर्देवास्तमर्चितुम् ॥ ४२३ || सुबुद्धिनैवं कथिते, श्रद्धोलिखितमानसः । स राजा तुरगारूढस्तं मुनीन्द्रमुपाययौ ।। ४२४ ॥ नमस्कृत्योपविष्टे च, तस्मिन् राज्ञि महामुनिः । विदधे कुमतध्वान्तकौमुदीं धर्मदेशनाम् ।। ४२५ ।। देशनान्ते स भूपालस्तं पप्रच्छ कृताञ्जलिः । स्वामिन् ! मम पिता मृत्वा, कां गतिं प्रत्यपद्यत ? ।। ४२६ ।। उवाच मोऽथ भगवान्, महाराज ! पिता तव । सप्तमं नरकं प्राप, स्थानं नान्यत्र तादृशाम् ।। ४२७ ॥ तदाकर्ण्य समुद्भूतसंवेगः स महीपतिः । वन्दित्वा मुनिमुत्थाय ययाँ निजनिकेतने ॥ ४२८ ॥ 20 राज्यं सूनोः सोऽर्पयित्वा सुबुद्धिमिदमभ्यधात् । प्रवजिष्याम्यहं धर्मं, मयीवाऽस्मिन् सदा दिशेः ॥४२९ ॥ सोsप्यूचे प्रत्रजिष्यामि, भवन्तमनु भूपते ! । त्वत्सुते मत्सुतो धर्मं, वक्ष्यत्यहमिव त्वयि ॥ ४३० ॥ कर्माद्रिभेदकुलिशं व्रतं तौ राजमत्रिणौ । आददाते सुचिरं च, पालयित्वेयतुः शिवम् ॥ ४३१ ॥
युष्मद्वंशेऽपरश्चासीद्, दण्डको नाम पार्थिवः । प्रचण्डशासनो दण्डधरः साक्षादिवाऽरिषु ॥ ४३२ ॥ बभूव तनयस्तस्य, मणिमालीति विश्रुतः । अंशुमालीव तेजोभिरभिव्याप्तदिगन्तरः ॥ ४३३ ॥ पुत्रमित्रकलत्रेषु, रत्नस्वर्णधनेषु च । प्राणेभ्योऽप्यत्यभीष्टेषु मूर्च्छावान् दण्डकोऽभवत् ॥ ४३४ ॥ आर्त्तध्यानपरः कालाद्, दण्डकः प्राप पञ्चताम् । भाण्डागारे निजे सोऽजगरोऽजायत दुर्गरः || ४३५ || तत्रागारे प्रविवेश, यो यस्तं तं स जयसे । दारुणात्मा सर्वभक्षी, हुताशन इवोद्यतः ॥ ४३६ || अन्यदा ददृशे तेन, मणिमाली गृहं विशन् । प्राग्जन्मस्मरणाच् चात्मसूनुरित्युपलक्षितः || ४३७ ॥ प्रशान्तां दर्शयन्मूर्ति, सस्नेहो मूर्तिमानिव । प्राग्जन्मबन्धुर्नः कोऽपीत्यज्ञायि मणिमालिना ॥ ४३८ ॥ 30 मुनीनां ज्ञानिनां पार्श्वाज्ज्ञात्वा तं पितरं निजम् । उपविश्य पुरस्तस्य, जैनं धर्म शशंस सः ॥ ४३९ ॥ सोऽवबुध्यार्हतं धर्म, संन्यासं प्रत्यपद्यत । शुभध्यानपरो मृत्वा देवभूयमियाय च ॥ ४४० ॥ पुत्रप्रेम्णा दिवोऽभ्येत्य स हारं मणिमालिने । दिव्यमुक्तामयमदात् सोऽयमद्यापि ते हृदि ॥ ४४१ ॥ हरिचन्द्रान्वयेऽभ्रस्त्वं, सुबुद्धेरन्वये त्वहम् । क्रमागताप्तभावेन, ततो धर्मे प्रवर्त्यसे ॥ ४४२ ॥
10
15
25
१४
| प्रथमं पर्व
Jain Education International
For Private & Personal Use Only
४१० ॥
१ शाक्तः । * प्रतिमं ख खं, सं २ ॥ २ दुर्गन्धमय्यः । । "रिश्चन्द्रौ सं १, २ ॥ °रिश्चन्द्र सं १, २ ॥ ६ पथानुगः सं २ ॥ || 'रिश्चन्द्रों सं १, २ ॥ ३ कुमतान्धकारचन्द्रिकाम् ४ सम्प्राप्तवैराग्यः । ५ कर्मरूपपर्वतविदारणे वज्रम् । ६ त्यागम् । ७ देवत्वम् ।
४११ ॥
www.jainelibrary.org