________________
प्रथमः सर्गः]
त्रिपष्टिशलाकापुरुषचरितम् । यद्वस्तुपु स्थिरत्वे धीर्वासना तत्र कारणम् । पूर्वापरक्षणानां तदेकत्वं वास्तवं न तु ॥ ३७६ ॥ ___ अथोवाच स्वयम्वुद्धो, वस्तु नास्ति निरन्वयम् । अम्भस्तृणादि हि गवां, हन्त ! दुग्धाय कल्पते ॥३७७॥ आकाशपुष्पवत् कूर्मरोमवञ्च निरन्वयम् । नैव वस्तु भवत्यत्र, तद् वृथा क्षणभङ्गधीः ॥ ३७८ ॥ वस्तु चेत् क्षणविध्वंसि, सन्तानः क्षणिको न किम् ? । सन्तानस्य च नित्यत्वे, समस्तं क्षणिकं कुतः?॥३७९॥ सर्वभावेष्वनित्यत्वे, निहितप्रतिमार्गणम् । स्मरणं प्रत्यभिज्ञा च, कथं नामोपपद्यते ? ॥ ३८० ॥ 5 जन्मानन्तरनाशित्वे, द्वितीयक्षणसम्भवी । पित्रोन पुत्रः पितरौ, न पुत्रस्येत्यसङ्गतिः ॥ ३८१ ॥ विवाहसमयादूर्वा, जम्पत्योः क्षणनाशिनोः । न जायायाः पतिः पत्युर्न जायेत्यसमञ्जसम् ॥ ३८२ ॥ इह कृत्वाऽशुभं कर्म, स नाऽमुत्राऽश्नुते फलम् । भुङ्क्तेऽन्यः किन्तु तदिति, कृतनाशाऽकृतागमौ ॥३८३॥ __ तुर्योऽप्युवाच मायाऽसौ, तत्त्वतो नास्ति किश्चन । दृश्यमानमपि स्वाम-मृगतृष्णादिसन्निभम् ॥३८४ ॥ गुरुः शिष्यः पिता पुत्रो, धर्मोऽधर्मो निजः परः । इत्यादि दृश्यते यत् स, व्यवहारो न तात्त्विकम् ॥३८५।। 10 विहाय जम्बुको मांसं, तीरे मीनाय धावितः । मीनोऽथ प्राविशत तोये, मांसं गृध्रोहरद यथा ॥३८६॥ तथैहिकसखं हित्वा. परलोकाय धाविताः । आत्मानमभयभ्रष्टा. वञ्चयन्ते हि ते नराः ॥३८७॥ पाखण्डिनामलीकाज्ञां, श्रुत्वा नरकभीरवः । दण्डयन्ति निजं देहमहो ! मोहाद् व्रतादिना ॥ ३८८ ॥ यथा क्षमापातशङ्ककाङ्किणा नृत्यति लावकः । तथाभिशङ्कय नरकपातं जन्तुस्तपस्यति ॥ ३८९ ॥
स्वयम्वुद्धोऽब्रवीद् वस्तु,न सच्चेदर्थकृत् कथम् ? । माया चेदीदृशी तर्हि, स्वमेभः किं न कार्यकृत् ॥३९०॥15 कार्यकारणभावं चेद्, वस्तूनां पारमार्थिकम् । न मन्यसे तदा किं त्वं, बिभेषि पततोऽशनेः? ॥ ३९१ ॥ एवं सति न त्वं नाऽहं, न वाच्यं न च वाचकः। तदेष्टप्रतिपत्तिः स्याद्, व्यवहारकरी कथम् ? ॥३९२॥
वितण्डापण्डितैरेभिः, स्वयं विषयगृभुभिः । देव ! प्रतार्यसे नित्यं, शुभोर्दकपराङ्मुखैः ॥ ३९३ ॥ ततो विवेकमालम्ब्य, विषयांस्त्यज दूरतः । धर्ममेवाश्रय स्वामिन्नत्राऽमुत्र च शर्मणे ॥ ३९४ ॥ __ अथ राजाऽब्रवीदेवं, प्रसादसुभगाननः । खयम्बुद्ध ! महाबुद्धे !, साधु साधूक्तवानदः ॥ ३९५ ॥ 20 युक्तं धर्म उपादेयो, न धर्मद्वेषिणो वयम् । उपादीयेत कालेऽसौ, मत्रास्त्रमिव सङ्गरे ॥ ३९६ ॥ चिरादभ्यागतं मित्रमिव को नाम यौवनम् । उपेक्षेत तदुचिता, प्रतिपत्तिमकल्पयन् ? ॥ ३९७ ॥ धर्मोपदेशस्तदयं, त्वयाऽनवसरे कृतः । वीणायां वाद्यमानायां, वेदोद्गारो न राजते ॥ ३९८ ॥ परलोको हि धर्मस्य, फलं सन्दिग्धमेव तत् । तदैहिकसुखास्वादमकाण्डे किं निषेधसि ? ॥ ३९९ ॥ ___ अथ विज्ञपयामास, स्वयम्बुद्धः कृताञ्जलिः । आवश्यके धर्मफले, मा शतिष्ठाः कदाचन ॥४००॥ 25 किं न स्मरसि बालत्वे, यदावां नन्दने वने । अपश्याव गतावेकं, कान्तिरूपधरं सुरम् ? ॥ ४०१ ॥ सप्रसादो जगादैवं, स देवस्त्वां तदा नृप! । अहं ह्यतिबलो नाम, भवतोऽसि पितामहः ॥ ४०२ ॥ क्रूरमित्रादिवोद्विग्नोऽमुष्माद् वैषयिकात् सुखात् । राज्य तृणमिव त्यक्त्वा, निरनीमहमाश्रयम् ॥ ४०३ ॥ व्रतप्रासादकलसः, संन्यासोऽन्तक्षणे मया । गृहीतस्तत्प्रभावेण, जातोऽहं लान्तकाधिपः ॥ ४०४॥ प्रमद्वरेण न स्थेयं, तत् त्वयाऽपीत्युदीर्य च । विद्योतितवियद्विद्युदिव सोऽथ तिरोदधे ॥ ४०५॥ 30 मन्यस्व परलोकं तद्, वचः पैतामहं स्मरन् । प्रत्यक्षेऽपि प्रमाणे किं, प्रमाणान्तरकल्पना? ॥४०६॥ राजाऽप्यूचे सारितोऽस्मि, साधु पैतामहं वचः । परलोकमहं मन्ये, धर्माधर्मनिबन्धनम् ॥ ४०७ ॥ मिथ्यादृग्वाक्पांशुपुञ्जजलदः सोऽथ मत्रिराट् । लब्धावकाशः सानन्दमिति वक्तुं प्रचक्रमे ॥ ४०८॥
तव वंशेऽभवत् पूर्व, कुरुचन्द्रो नरेश्वरः । जाया कुरुमती तस्य, हरिचन्द्रश्च नन्दनः ॥ ४०९ ।।
१ निःसन्तानम् । २ न्यासीकृतस्य प्रतियाचनम् । ३ असत्याज्ञाम् । ४ पक्षिविशेषः । ५ विषयलोलुपैः। ६ शुभोत्तरकालविमुखैः । * "वार्जय वासं १॥ युद्धे। शानदर्शनचारित्ररूपाम् ।९ प्रमादिना। १० प्रकाशिताकाशः । *हरिश्चन्द्र सं१,२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org