________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व कर्पूरागरुकस्तूरीचन्दनादिभिराँचितः । एकसौरभ्यनिष्पन्न, इव तिष्ठ दिवानिशम् ॥ ३४२ ॥ उद्यानयानजगतीचित्रशालादिशालि यत् । तत्तत् क्षितीश ! प्रेक्षस्व, चक्षुःप्रीत्यै प्रतिक्षणम् ॥ ३४३ ॥ वेणुवीणामृदङ्गानुनादिभिर्गीतनिखनैः । दिवानिशं तव स्वामिन्नस्तु कर्णरसायनम् ॥ ३४४ ॥ यावजीवेत् सुखं जीवेत् , तावद् वैषयिकैः सुखैः । न ताम्येद् धर्मकार्याय, धर्माधर्मफलं क्व तत् ? ॥३४५॥
स्वयम्बुद्धस्ततोऽवादीन्नास्तिकैः स्वपरारिभिः । अन्धैरन्धा इवाकृष्य, पात्यन्ते धिगधो जनाः ॥३४६॥ स्वसंवेदनवेद्योऽयमात्माऽस्ति सुखदुःखवित् । निषेधितुं बाधाभावाच्छक्यते न हि केनचित् ॥ ३४७ ॥ सुखितोऽहं दुःखितोऽहमिति कस्यापि जातुचित् । जायते प्रत्ययो नैव, विनाऽऽत्मानमबाधितः ॥३४८॥ स्वशरीरे स्वसंवित्तेरेवमात्मनि साधिते । अस्त्येव परकीयेऽपि, शरीरे सोऽनुमानतः ॥ ३४९ ॥
निश्चीयते शरीरेऽस्ति, परकीयेऽपि चेतनः । सर्वत्र बुद्धिपूर्वायाः, क्रियाया उपलम्भतः॥३५०॥ 10 य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । अस्त्येवं परलोकोऽपि, चेतनस्य न संशयः ॥ ३५१ ॥
यात्येकमेव चैतन्यं, जन्मतोऽन्यत्र जन्मनि । शैशवादिव तारुण्ये, तारुण्यादिव वार्द्धके ॥ ३५२ ॥ विना हि पूर्वचैतन्यानुवृत्तिं जातमात्रकः । अशिक्षितः कथं बालो, मुखमर्पयति स्तने ? ॥ ३५३ ॥ अचेतनेभ्यो भूतेभ्यश्चेतनो जायते कथम् ? । कारणस्याऽनुरूपं हि, कार्य जगति दृश्यते ॥ ३५४ ॥
प्रत्येकं युगपद् वा स्याद् , भूतेभ्यश्चेतनो ननु । आद्यः पक्षो यदि तदा, तावन्तश्चेतना न किम् ? ॥३५५॥ 15 अथ द्वितीयः पक्षः स्यात्, तदा भिन्नस्वभावकैः । भूतैरेकस्वभावोऽयं, जन्यते चेतनः कथम् ? ॥३५६ ॥
रूपगन्धरसस्पर्शगुणा तावद् वसुन्धरा । प्रत्यक्षमेतदापोऽपि, रूपस्पर्शरसात्मिकाः ॥ ३५७ ॥ रूपस्पर्शगुणं तेज, एकस्पर्शगुणो मरुत् । अमीषामेवमाबालं, व्यक्ता भिन्नस्वभावता ॥ ३५८ ॥ तोयादिभ्यो विसदृशां, मुक्तानां जन्मदर्शनात् । भूतेभ्योऽचेतनेभ्योऽपि, चेतनः सम्भवीति चेत् ॥३५९॥ तन्न युक्तं यतस्तोयं, मौक्तिकादिषु दृश्यते । एक पौद्गलिक रूपं, वैसदृश्यं ततः कथम् ? ॥ ३६० ॥ किश्च पिष्टोदकादिभ्यो, मदशक्तिरचेतना । अचेतनेभ्यो जातेति, दृष्टान्तश्चेतने कथम् ? ॥ ३६१ ॥ न च देहात्मनोरैक्यमिति वाच्यं कदाचन । यद्देहे तदवस्थेऽपि, चेतनो नोपलभ्यते ॥ ३६२ ॥ यच्चैकः पूज्यते ग्रावा, मूत्राद्यैर्लिप्यतेऽपरः । तदसत् सुखदुःखादि, कुतस्त्यमपचेतने ? ॥ ३६३ ॥ ततो देहाद् विभिन्नोऽयमात्माऽस्ति परलोकवान् । विद्यते परलोकोऽपि, धर्माधर्मनिबन्धनम् ॥ ३६४ ॥ अङ्गनालिङ्गनादग्नितापादिव समन्ततः । विलीयते मनुष्याणां, विवेको नवनीतवत् ॥ ३६५ ॥ निरर्गलं बहुरसांस्तांस्तानाहारपुद्गलान् । भुञ्जानो नैव जानाति, मत्तः पशुरिवोचितम् ॥ ३६६ ॥ चन्दनागरु कस्तूरी-धनसारादिगन्धतः । आक्रामति नरं सद्यो, दन्दशूक इव स्मरः ॥ ३६७ ॥ पुमान् रामादिरूपेषु, विलग्नेनेह चक्षुषा । वृतिलग्नोपसंव्यानाञ्चलेनेव स्खलत्यहो ! ॥ ३६८ ॥ मुहूर्त्तसुखदानेन, मोहयन्ती मुहुर्मुहुः । धूर्त्तमैत्रीव सङ्गीतिः, कुशलाय न सर्वथा ॥ ३६९ ॥
तत्पापस्यैकसुहृदो, धर्मस्यैकविरोधिनः । नरकस्याकृष्टिपाशान् , विषयान् मुश्च दूरतः ॥ ३७० ॥ 30 यत् प्रेष्य एको भवति, खामी भवति चाऽपरः । एकः प्रार्थयते भिक्षामपरश्च प्रयच्छति ॥ ३७१ ॥
वाहनं च भवत्येकस्तमन्यश्चाधिरोहति । अभयं याचते चैको, द्वितीयस्तु ददाति तत् ॥ ३७२ ॥ इत्यादि सम्यगेवेह, धर्माधर्मफलं महत् । पश्यन्नपि न मन्येत, यस्तस्मै स्वस्ति धीमते ! ॥ ३७३ ॥ तदंसद्वागिवाऽधर्मो, हेयो दुःखनिबन्धनम् । स्वामिन् ! सद्वागिवादेयो, धर्मः शमैंककारणम् ॥ ३७४ ॥
ऊचे ततः शतमतिर्मात्मा कश्चिदिहाऽपरः । पदार्थविषयज्ञानात् , प्रतिक्षणविभङ्गुरात् ॥ ३७५ ॥
* भिरर्चितः सं १, आ॥ सौगम्ध्योत्पनः। २ कर्णामृतम् । ३ स्वानुभववेद्यः। ४ विश्वासः। ५ स्वानुभवात् । ६ प्राप्तेः । + तत्पाकस्यै सं॥ अयं श्लोकः सं १ पुस्तके न दृश्यते॥ असजनोक्तिवत् पापो, हेयो सं॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org