________________
15
प्रथमः सर्गः ] त्रिपष्टिशलाकापुरुपचरितम ।
११ यतिनेवाऽचरित्रेण, सैन्येनेवाऽपशस्त्रिणा । मुखेनेवाक्षिहीनेन, निधर्मेण नरेण किम् ? ॥ ३१०॥
[त्रिभिर्विशेषकम् ।] चक्रवर्त्यप्यधर्मः सन् , जन्म तल्लभते पुनः । कदन्नमपि सम्प्राप्त, साम्राज्यं यत्र मन्यते ॥ ३११ ॥ महाकुलप्रसूतोऽपि, धर्मोपाजनवर्जितः । भवेद् भवान्तरे श्वेव, परोच्छिष्टान्नभोजनः ॥३१२ ॥ धर्महीनो द्विजन्माऽपि, नित्यं पापानुबन्धकः । बिडाल इव दुवृत्तो, म्लेच्छयोनिपु जायते ॥ ३१३॥ 5 बिडाल-व्याल-शार्दूल-श्येन-गृध्रादियोनिषु । भवन्ति भूयिष्ठभवा, भविनो धर्मवर्जिताः ॥ ३१४ ॥ धर्महीनाः कृमयः स्युरेसकृच्छकदादिपु ! कुक्कुटादेर्लभन्ते च, चञ्चूचरणताडनम् ॥ ३१५ ॥ जायन्ते धर्मरहिता, नरा नरकभूमिषु । वैरादिव कदर्थ्यन्ते, परमाधामिकासुरैः ॥ ३१६ ॥ अनन्तव्यसनावेगज्वलनान्तरवर्तिनः । त्रपुःपिण्डानिव हहा!, धिगधर्मान् शरीरिणः ॥ ३१७ ॥ धर्मादामोति शर्माणि, परमादिव बान्धवात् । तरण्डेनेव तरति, धर्मेण विपदापगाः ॥ ३१८ ॥ 10 पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः । आश्रीयन्ते च सम्पद्भिलताभिरिव पादपाः॥ ३१९ ॥ आधि-व्याधि-विरोधादि, सर्वं बाधानिबन्धनम् । विध्यायत्याशु धर्मेण, जलेनेव हुताशनः ।। ३२० ॥ जन्मान्तरेऽप्यर्पणाय, सर्वकल्याणसम्पदाम् । प्रतिभूधर्म एवाऽयमलङ्कर्मीणविक्रमः ॥ ३२१ ॥ किमन्यदुच्यते स्वामिन् ! ?, धर्मेणैव बलीयसा । सौधाग्रमिव निश्रेण्या, लोकाग्रं यान्ति जन्तवः ॥३२२॥ विद्याधरनरेन्द्रत्वं, धर्मेणैव त्वमासदः । अतोऽप्युत्कृष्टलाभाय, धर्ममेव समाश्रय ॥ ३२३ ॥
दर्शरात्रिरिवाऽत्यन्तमिथ्यात्वतिमिराकरः । ततो विषोपममतिः, सम्भिन्नमतिरब्रवीत् ॥ ३२४॥ साधु साधु स्वयम्वुद्ध !, स्वामिनो हितकाम्यसि । यदाहार इबोद्गारैगिंरा भावोऽनुमीयते ॥ ३२५ ॥ ऋजोः सदा प्रसन्नस्य, स्वामिनः सुखहेतवे । वदन्त्येवं कुलामात्यास्त्वादृशा एव नाऽपरे ।। ३२६ ।। निसर्गकठिनः कस्त्वामुपाध्यायोऽध्यजीगपत् ? । अकाण्डाशनिपाताभ, प्रभौ यदिदमब्रवीः ॥ ३२७ ॥ स्वयं भोगार्थिभिः स्वामी, सेव्यते सेवकैरिह । मा भुंक्थास्त्वं तु भोगानित्युच्यते स कथं नुतैः?॥३२८॥20 त्यक्त्वा यदैहिकान् भोगान् , परलोकाय यत्यते । हित्वा हस्तगतं लेद्यं, कूर्परालेहनं हि तत् ॥ ३२९ ॥ परलोकफलो धर्मः, कीर्त्यते तदसङ्गतम् । परलोकोऽपि नाऽस्त्येवाऽभावतः परलोकिनः ॥ ३३०॥ पृथ्व्यप्तेजःसमीरेभ्यः, समुद्भवति चेतना । गुडपिष्टोदकादिभ्यो, मदशक्तिरिव स्वयम् ॥ ३३१ ॥ शरीरान्न पृथक कोऽपि, शरीरी हन्त ! विद्यते । परित्यज्य शरीरं यः, परलोकं गमिष्यति ॥ ३३२ ॥ निःशङ्कमुपभोक्तव्यं, ततो वैषयिकं सुखम । स्वात्मा न वञ्चनीयोऽयं. स्वार्थभ्रंशो हिमखंता ॥३३३॥ 25 धर्माधर्मों च नाशक्यौ, विघ्नहेतू सुखेषु तत् । तावेव नैव विद्यते, यतः खेरविषाणवत् ॥ ३३४ ॥ सपनेनाङ्गरागेण, माल्यवस्त्रविभूषणैः । यदेकः पूज्यते ग्रविा, पुण्यं तेन व्यधायि किम् ? ॥ ३३५ ॥ अन्यस्य चोपरि ग्राव्ण, आसित्वा मूत्र्यते जनैः। क्रियते च पुरीषादि, पापं तेन व्यधायि किम् ? ॥३३६॥ उत्पद्यन्ते विपद्यन्ते, कर्मणा यदि जन्तवः । उत्पद्यन्ते विपद्यन्ते, बुद्बुदाः केन कर्मणा ? ॥ ३३७ ॥ तदस्ति चेतनो यावत् , चेष्टयते तावदिच्छया । चेतनस्य विनष्टस्य, विद्यते न पुनर्भवः ॥ ३३८॥ 30 य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । इत्येतदपि वामात्रं, सर्वथाऽनुपपत्तितः॥ ३३९ ॥ शिरीषकैल्पे तत्तल्पे, रूपलावण्यचारुभिः । रमणीभिः समं स्वामी, रमतामविशङ्कितम् ॥ ३४० ॥ भोज्यान्यमृतरूपाणि, पेयानि च यथारुचि । खाद्यन्तां स्वामिना खैरं, स वैरी यो निषेधति ॥ ३४१ ॥
१ कुत्सितमन्नम्। * यत्र राज्याय मन्यते संता ॥ २ पौनःपुन्येन विष्ठादिषु । ३ सीसकपि डान् । ४ शाम्यति । ५ समर्थ पराक्रमः। ६ अमावास्यारात्रिः। 1 "रिवोत्पन्नमि आ॥ ७ अनवसरे वज्रपाततुल्यम् । ८ हस्तमध्यभागः "कोणी" इति कोके। ९गर्दभशजवत् । १० पाषाणः। ११ असिद्धितः। १२ शिरीषकुसुमतुल्ये। १३ शय्यायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org