________________
कलिकाल सर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
आत्माराममना वाचंयमो नियतचेष्टितः । अधिसेहे महासच्चो, दुःसहान् स परीपहान् ॥ २७७ ॥ मैत्र्यादिभिर्भावनाभिः, प्रवृद्धध्यानसन्ततिः । सोऽमन्दानन्दनिर्मनस्तस्थौ मुक्ताविवाऽनिशम् ॥ २७८ ॥ ध्यानेन तपसा चाssयुर्लीलयैवाऽतिवाह्य सः । महात्मा सादयामास, सदनं त्रिदिवौकसाम् ॥ २७९ ॥ महाबलोऽपि बलिभिः, खेचरैः परिवारितः । आखण्डल इवाऽखण्डशासनः प्रशशास गोम् ॥ २८० ॥ 5 रम्यास्वारामराजीषु स रेमे रमणीवृतः । मुदितः पङ्करुहिणीखण्डेष्विव सितच्छदः || २८१ ॥ अभ्रुवंस्तत्पुरो नित्यसङ्गीतप्रतिशब्दितैः । सङ्गीतकानुवादिन्य, इव वैताढ्यकन्दराः ॥ २८२ ॥ अग्रतः पार्श्वयोः पश्चान्नारीभिः परिवेष्टितः । स चकासामास रसः शृङ्गार इव मूर्तिमान् ॥ २८३ ॥ स्वच्छन्दं तस्य विषयक्रीडाव्यग्रस्य सर्वदा । समरात्रिन्दिवः कालो, बभूव विषुवन्निभः ।। २८४ ॥ अनेकामात्यसामन्तैर्मणिस्तम्भैरिवाऽपरैः । परिष्कृतां निजास्थानीं, सोऽधितस्थावथैकदा ॥ २८५ ॥ तं नत्वोपाविशन् सर्वे, यथास्थानं सभासदः । ते तदेकाग्रनयना, योगिलीलामधारयन् ॥ २८६ ॥ ते स्वयम्बुद्ध-सम्भिन्नमती शतमतिस्तथा । महामतिश्च तत्रासाञ्चक्रिरे मत्रिणोऽपि हि ॥ २८७ ॥ स्वामिभक्तिसुधासिन्धुर्मनीषारत्नरोहणः । सम्यग्दृष्टिः स्वयम्बुद्ध, इति तत्र व्यचिन्तयत् ॥ २८८ ॥ अस्माकं पश्यतामेष, दुर्वाजिभिरिवेन्द्रियैः । ह्रियते विषयासक्तः, स्वामी धिग् न उपेक्षकान् ॥ २८९ ॥ defeatव्यग्रस्य, जन्माऽस्मत्स्वामिनो मुधा । यातीति ताम्यति मनो, मीनः स्तोक इवाम्भसि ॥ २९० ॥ अस्माभिर्मत्रिभिरसौ, न चेदुच्चैः पदं श्रयेत् । तदस्माकं भवेन्नर्ममत्रिणां च किमन्तरम् ॥ २९९ ॥ तद्विज्ञपय्य नेतव्योऽस्माभिः स्वामी हिते पथि । नीयन्ते यत्र तत्रैते, यान्ति सारणिवन्नृपाः ॥ २९२ ॥ यद्यप्यपवदिष्यन्ते, स्वामिव्यसनजीविनः । वाच्यं तथाऽपि नोप्यन्ते, यवा मृगभयेन किम् ? ।। २९३ ।। विमृश्येति स्वयम्बुद्धो, धौरेयो बुद्धिशालिनाम् । इति विज्ञपयामास, राजानं रचिताञ्जलिः ॥ २९४ ॥
आसंसारं सरिन्नाथः, किं तृप्यति सरिज्जलैः ? । सरित्पतिपयोभिर्वा, किमेष वडवानलः १ ॥ २९५ ॥ अर्न्तको जन्तुभिः किं वा ?, किमेधोभिर्हुताशनः १ । सुखैर्वैषयिकैरात्मा, किं तथैष कदाचन ? ।। २९६ ।। कूलच्छाया दुर्जनाच, विषं च विषयास्तथा । दन्दशूकाश्च जायन्ते, सेव्यमाना विपत्तये ।। २९७ ॥ आसेव्यमानस्तत्कालसुखोऽन्तविरसः स्मरः । कण्डूय्यमाना पॉमेव, निकामं च प्रवर्द्धते ।। २९८ ॥ कामोऽयं नरकदूतः, कामो व्यसनसागरः । कामो विपल्लताकन्दः, कामः पापद्धुसारणिः ।। २९९ ।। मदनेन मदेनेव, जनः परवशीकृतः । सदाचारपथभ्रष्टः पतत्येव भवावटे ॥ ३०० ॥
10
15
20
べ
25 अर्थं धर्मं च मोक्षं च, वेश्मेव गृहमेधिनः । आसादितप्रवेशोऽयं, खनत्याखुरिव स्मरः ॥ ३०९ ॥ दर्शनेन स्पर्शनेनोपभोगेन च निर्भरम् । व्यामोहायैव जायन्ते, विषवल्य इव स्त्रियः ॥ ३०२ ॥ निकाममेव कामिन्यः, कामलुब्धकवागुराः । हरिणानामिव नृणां, जायन्तेऽनर्थहेतवे ।। ३०३ ।। ये नर्मसुहृदः खादाचामैकसुहृदो हि ते । स्वामिनश्चिन्तयन्त्येते, परलोकहितं न यत् ॥ ३०४ ॥ स्त्रीकथाभिर्गीतनृत्तैर्नर्मोक्त्या मोहयन्त्यमी । पिङ्गाः स्वस्वामिनमहो !, नीचाः स्वार्थैकतत्पराः || ३०५ ॥ 30 कुसंसर्गात् कुलीनानां भवेदभ्युदयः कुतः ? । कदली नन्दति कियद् ?, बदरीतरुसन्निधौ ॥ ३०६ ॥ तत्प्रसीद कुलस्वामिन्!, स्वयं विज्ञोऽसि मा मुहः । विहाय व्यसनासक्तिं, मनो धर्मे निधीयताम् ।। ३०७ ॥ निभ्छायेन द्रुमेव, सरसेवाऽपवारिणा । निर्गन्धेनेव पुष्पेण, विदन्तेनेव दन्तिना ॥ ३०८ ॥ रूपेणेवाऽलवणिम्ना, राज्येनेवाऽपमन्त्रिणा । अदेवेनेव चैत्येन, रजन्येवेन्दुहीनया ॥ ३०९ ॥
१ इन्द्रः । २ पृथ्वीम् । ३ हंसः । * पुरे नि° सं १, आ ॥ ४ सङ्गीतस्य अनुकरणं कुर्वन्त्यः । ५ समरात्रिदिनात्मकः कालो विषुवत् । ६ सभाम् । ७ बुद्धिरत्नस्य रोहणाचलरूपः । ८ समुद्रः । ९ समुद्रः । १० यमराजः । ११ काष्ठैः । १२ खसः । १३ भवकूपे । १४ मूषकः । १५ खानपानैकमित्राणि । १६ विटाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org