________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम । कलानिधिरिवाऽशेषकलापूर्णः शनैः शनैः । स बभूव महाभागो, जनानां नयनोत्सवः ॥ २४३॥ स कन्यां विनयवतीं, मूर्ती तु विनयश्रियम् । समये समयाभिज्ञः, पित्रादेशादुपायत ॥ २४४ ॥ निशातमस्त्रं कामस्य, कामिनीजनकार्मणम् । रतिलीलावनं सोऽथ, यौवनं प्रत्यपद्यत ॥ २४५ ॥ क्रमौ समतलौ तस्य, क्रमात् कूर्मवदुन्नतौ । सिंहमध्याधरीकारधुरीणं मध्यमप्यभूत् ॥ २४६ ॥ उरःस्थलं चाऽकलयत् , स्वर्णशैलशिलातुलाम् । उद्धरौ दधतुः स्कन्धी, ककुमत्ककुदश्रियम् ॥ २४७ ॥ 5 भुजौ भुजङ्गमाधीशभोगशोभां च बँभ्रतुः । अ‘म्युदितराकेन्दुलीलामलिङमाददे ॥ २४८ ॥ रदैनखैर्मणिनिभैर्वपुषा कनकत्विषा । सकलां कलयामास, मेरुलक्ष्मी स्थिराकृतिः ॥ २४९ ॥ __ अपरेयुः शतबलो, विद्याधरपतिः सुधीः । महासत्त्वस्तत्त्वविज्ञश्चिन्तयामासिवानिदम् ॥ २५० ॥ विधाय सहजाऽशौचमुपस्कारैर्नवं नवम् । गोपनीयमिदं हन्त !, कियत्कालं कलेवरम् ? ॥ २५१ ॥ सत्कृतोऽनेकशोऽप्येष, सत्क्रियेत यदापि न । तदापि विक्रियां याति, कायः खलु खलोपमः ॥ २५२ ।। 10 अहो ! बहिर्निपतितैर्विष्ठा-मूत्र-कफादिभिः। हणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितैर्न किम् ॥२५३॥ रोगाः समुद्भवन्त्यसिन्नत्यन्तातङ्कदायिनः । दन्देशूका इव क्रूरा, जरविटपिकोटरे ॥ २५४ ॥ निसर्गाद् गत्वरश्वाऽयं, कायोऽब्द इव शारदः । दृष्टनष्टा च तत्रेयं, यौवनश्रीस्तडिनिभा ॥२५५ ॥ आयुः पताकाचपलं, तरङ्गतरलाः श्रियः। भोगिभोगनिभा भोगाः, सङ्गमाः स्वमसन्निभाः ॥ २५६ ॥ काम-क्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् । आत्मा शरीरान्तःस्थोऽसौ, पच्यते पुटपाकवत् ॥२५७॥ 15 विषयेष्वतिदुःखेषु, सुखमानी मनागपि । नाऽहो ! विरज्यति जनोऽशुचिकीट इवाऽशुचौ ॥ २५८ ॥ दुरन्तविषयास्वादपराधीनमना जनः । अन्धोऽन्धुमिव पादारस्थितं मृत्युं न पश्यति ॥ २५९ ॥ आपातमात्रमधुरैर्विषयैर्विषसन्निभैः । आत्मा मूञ्छित एवाऽऽस्ते, स्वहिताय न चेतति ॥ २६० ॥ तुल्ये चतुर्णा पौमर्थ्य, पापयोरर्थकामयोः । आत्मा प्रवर्तते हन्त !, न पुनर्धर्ममोक्षयोः ॥ २६१ ॥ अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयं, मानुष्यमतिदुर्लभम् ॥ २६२ ॥ मानुष्यकेऽपि सम्प्राप्ते, प्राप्यन्ते पुण्ययोगतः । देवता भगवानर्हन् , गुरवश्च सुसाधवः ॥ २६३ ॥ मानुष्यकस्य यद्यस्य, वयं नादग्रहे फलम् । मुषिताः स तदधुना, चौरैर्वसति पत्तने ॥ २६४ ॥ तदद्य कवचहरे, कुमारेऽस्मिन् महाबले । राज्यभारं समारोप्य, कुर्महे स्वसमीहितम् ॥ २६५ ॥ विमृश्यैवं शतबलः, समाहूय महाबलम् । विनीतं बोधयामास, राज्यग्रहणहेतवे ॥ २६६ ॥ स राज्यभारमुद्वोर्ल्ड, मेने पितृनिदेशतः । भवन्ति हि महात्मानो, गुर्वाज्ञाभङ्गभीरवः ॥ २६७॥ 25 ततः शतबलः सिंहासनेऽध्यास्य महाबलम् । अभिषिच्य स्वहस्तेन, चक्रे तिलकमङ्गलम् ॥ २६८ ॥ स रराज नवो राजा, कुन्दसोदरकान्तिना । चान्दनेन तिलकेनोदयाचल इवेन्दुना ॥ २६९ ॥ पैतृकेणाऽऽतपत्रेण, हंसपत्रामलेन सः । शुशुभे शारदाभ्रेण, गिरिराज इवोच्चकैः ॥ २७० ॥ विरेजे प्रेङ्खता चारुचामरद्वितयेन सः । बलाकायुगलेनेव, विमलेन बलाहकः ॥ २७१ ॥ तस्याभिषेके गम्भीरतरो मङ्गल्यदुन्दुभिः । दध्वान ध्वनयनाशाश्चन्द्रोदय इवोदधिः ॥ २७२ ॥ 30 समन्तान्मत्रिसामन्तैः, समेत्य समनम्यत । द्वैतीयीकः शतबल, इव रूपान्तरेण सः॥ २७३ ॥ पुत्रं राज्ये निवेश्यैवं, स्वयं शतबलस्ततः । आददे शमसाम्राज्यमाचार्यचरणान्तिके ॥ २७४ ॥ सोऽसारान् विषयान् प्रोज्झ्य, सारं रत्नत्रयं दधौ। तथाऽप्यखण्डा तस्यासीत् , सर्वत्र समचित्तता॥२७५॥ मूलादुन्मूलयामास, कषायान् स जितेन्द्रियः । कूलङ्कषापूर इव, कूलस्थितमहीरुहान् ॥ २७६ ॥
तीक्ष्णम् । २ चरणौ। * बिभ्रतः सं १, आ॥ ३ ललाटम् । ४ संस्कारैः। ५ सपः। निसर्गग आ॥ ६सर्पफणातुल्याः । ७ कूपम् । ८ पुरुषार्थत्वे। संसारे पासं २ ॥६°बलस्तदारसं ॥९ मेषः। १० नयाः पूर इव ।
त्रिषधि. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org