________________
10
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व पक्वश्यामाक-नीवार-वालुङ्क-कुवलादिभिः । अध्वन्यानामिहाऽध्वान, आतिथ्यमिव कुर्वते ॥ २११॥ पवनान्दोल्यमानेचवणध्वानरसौ शरत् । यानाभियोगसमयं, शसतीवाऽऽभियोगिनाम् ॥ २१२ ॥ पान्थानां तप्यमानानां, रुचिभिश्चण्डरोचिषः । आतपत्रीभवन्त्येते, क्षणं शारदवारिदाः ॥ २१३ ॥ एते सार्थककुअन्तः, ककुदैर्भिन्दते स्थलीः । सुखयात्राकृते भॉ, वैषम्यमवनेरिव ॥ २१४ ॥ गर्जन्तः प्लावयन्तः क्ष्मां, पुरा ददृशिरे हि ये । नेशुार्गवहास्तेऽत्र, प्रावृषेण्या घना इव ।। २१५ ॥ वल्लीभिः फलनम्राभिः, स्वच्छैस्तोयैः पदे पदे । पन्थानोऽयत्नपाथेयाः, पान्थानामिह जज्ञिरे ॥ २१६ ॥ राजहंमा इवोत्साहबहलीकृतचेतसः । गन्तुं देशान्तराण्यत्र, त्वरन्ते व्यवसायिनः ॥ २१७॥ __ तच्छ्रुत्वा सार्थवाहोऽपि, प्रयाणसमयोऽमुना । विज्ञप्त इति विज्ञाय, यात्राभेरीमवादयत् ॥ २१८ ॥ सार्थोऽपि रोदसीकुक्षिम्भरेभैरीवात् ततः । चचाल गोवृन्दमिव, गोपगोशृङ्गनादतः ॥ २१९ ॥ भव्याजबोधप्रवणैः, साधुभिः परिवारितः । मरीचिभिः सूर इव, सूरिरप्यचलत् ततः ॥ २२० ॥ अग्रतः पार्श्वतः पश्चादारक्षपुरुषैः स्वयम् । रक्षामासूत्र्य सार्थस्य, प्रतस्थे सार्थपो धनः ॥ २२१ ॥ महाटवीं समुत्तीणे, सार्थे सार्थपतिं ततः । अनुज्ञाप्याऽऽचार्यवर्या, विहर्तुं ययुरन्यतः ॥ २२२ ॥ __ ततश्च सार्थवाहोऽपि, निष्प्रत्यूहं वहन् पथि । पाथोधिमिव नद्योघो, वसन्तपुरमासदत् ।। २२३ ॥ विक्रीणीते स भाण्डानि, प्रतिभाण्डानि चाऽऽददे । कालेन कियताऽप्येष, धीमन्तो ह्याशुकारिणः।।२२४॥ परितो भरितस्तस्माद् , वारिधेखि वारिदः । क्षितिप्रतिष्ठं नगरं, पुनरप्याययौ धनः ॥ २२५ ॥ कालेन तत्र पूर्णायुः, कालधर्ममुपागतः । आस्थितैकान्तसुषमेषूत्तरेषु कुरुष्वसौ ॥ २२६ ।। सीतानद्युत्तरतटे, जम्बूवृक्षानुपूर्वतः । उत्पेदे 'युग्मधर्मेण, मुनिदानप्रभावतः ॥ २२७ ॥ तत्राऽष्टमस्य पर्यन्ते, मा भोज्याभिलाषिणः । षट्पञ्चाशशतद्वन्द्वसङ्ख्यपृष्ठकरण्डकाः ॥ २२८ ॥ युग्मरूपास्त्रिगव्यूतोच्छ्याः पल्यत्रयायुषः । पर्यन्तप्रसवाः स्वल्पकपाया ममतोज्झिताः ॥ २२९ ॥ अपत्ययुग्ममेकोनपश्चाशतमहानि तु । पालयित्वा विपद्यन्तेऽथोत्पद्यन्ते सुरेषु ते ॥ २३० ॥ शर्करास्वादुसिकताः, शरज्योत्स्नानिमाम्भसः । तत्रोत्तरेषु कुरुषु, भूभ्यो रम्याः स्वभावतः ॥ २३१॥ मद्याङ्गप्रमुखास्तत्र, दशधा कल्पपादपाः । मनुजानामयत्नेन, सदा यच्छन्ति वाञ्छितम् ॥ २३२ ॥ ददते तत्र मद्याङ्गा, मद्यं भृङ्गास्तु भाजनम् । तूर्याङ्गकास्तु तूर्याणि, वर्याणि विविधैर्लयैः ॥ २३३ ॥
दीपशिखा ज्योतिष्काच, तन्वन्त्युझ्योतमद्भुतम् । माल्यं यच्छन्ति चित्रीङ्गा, भोज्यं चित्ररंसाः पुनः॥ 25 भूषणानि तु मण्यङ्गा, गेहाकारा गृहाणि तु । सम्पादयन्ति चाऽनग्ना, दिव्यवासांस्यनेकशः ॥२३५॥
एते च नियतानर्थान् , यच्छन्त्यनियतानपि । अन्ये च कल्पतरवस्तत्र सर्वेप्सितप्रदाः ॥ २३६ ॥ दिवीव तत्र कल्पद्रुसम्पन्नसकलेप्सितः । धनजीवो युग्मधर्माऽन्वभूद् वैषयिकं सुखम् ॥ २३७ ॥ मिथुनायुः पालयित्वा, धनजीवस्ततश्च सः । प्राग्जन्मदानफलतः, सौधर्मे त्रिदशोऽभवत् ॥ २३८ ॥
___ च्युत्वा सौधर्मकल्पाच्च, विदेहेष्वपरेष्वथ । विजये गन्धिलावत्यां, वैताठ्यपृथिवीधरे ॥२३९॥ 30 गन्धाराख्ये जनपदे, पुरे गन्धसमृद्धके । राज्ञः शतबलाख्यस्य, विद्याधरशिरोमणेः ॥ २४॥
भार्यायां चन्द्रकान्तायां, पुत्रत्वेनोदपादि सः । नाना महाबल इति, बलेनाऽतिमहाबलः ॥ २४१ ॥ रक्ष्यमाणः स आयुक्तैलाल्यमानस्तथा तथा । वृद्धिमासादयामास, शाखीव क्रमयोगतः ॥ २४२ ॥
श्यामाकस्तृणधान्यविशेषः, नीवारो धान्यविशेषः, वालुङ्कः चिर्भटकम्, कुवलं बदरीफलम् , "काकडी बोर" इति लोकभाषायाम् । २ पान्थानाम् । ३ मार्गाः। ४ यात्रोत्सुकानाम् । ५ मार्गप्रवाहाः। ६ व्यापारिणः। ७ सूर्यः। ८ रक्षकनरैः । ९ निर्विघ्नम् । * वृक्षस्य पू आ, सं२॥ । युग्मरूपेण सं १, खं ॥१० चतुर्थे दिवसे । ११ पृष्टस्थितसूक्ष्मगात्रावयवाः । १२ देवः । १३ रक्षकैः । १४ वृक्ष इव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org