________________
प्रथमः सर्गः ]
त्रिपष्टिशलाकापुरुपचरितम । सावद्ययोगविरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पञ्चसमितो, रागद्वेषविनाकृतः ॥ १७८ ॥ निर्ममो नगरवसत्यगोपकरणादिषु । तथाऽष्टादशशीलाङ्गसहस्रधरणोद्धरः ।। १७९ ॥ रत्नत्रयधरो धीरः, समकाञ्चनलेष्टुकः । शुभध्यानद्वयस्थास्तुर्जिताक्षः कुकिंशम्बलः ॥ १८० ॥ निरन्तरं यथाशक्ति, नानाविधतपःपरः । संयमं सप्तदशधा, धारयनविखण्डितम् ॥ १८१ ॥ अष्टादशप्रकारं च, ब्रह्मचर्य समाचरन् । यत्रेग ग्राहको दानं, तत् स्यात् ग्राहकशुद्धिमत् ॥ १८२ ॥ 5 देयशुद्धं द्विचत्वारिंशद्दोषरहितं भवेत् । पाना-ऽशन-खाद्य-खाद्य-वस्त्र-संस्तारकादिकम् ॥ १८३॥ कालशुद्धं तु यत् किश्चित् , काले पात्राय दीयते । भावशुद्धं त्वनाशंसं, श्रद्धया यत् प्रदीयते ॥ १८४ ॥ न देहेन विना धर्मो, न देहोऽनादिकं विना । धर्मोपग्रहदानं तद्, विदधीत निरन्तरम् ॥ १८५ ॥ पात्रेभ्योऽशनपानादिधर्मोपग्रहदानतः । करोति तीर्थाव्युच्छित्ति, प्रामोति च परं पदम् ॥ १८६ ॥ __शीलं सावद्ययोगानां, प्रत्याख्यानं निगद्यते । द्विधा तद्देशविरति-सर्वविरतिभेदतः॥१८७॥ 10 देशतो विरतिः पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षात्रतानि चत्वारि, चेति द्वादशधा मताः ॥ १८८ ॥ तत्र स्थूलाऽहिंसा-सत्या-ऽस्तेय-ब्रह्मा-ऽपरिग्रहाः । अणुव्रतानि पञ्चेति, कीर्शितानि जिनेश्वरैः ॥ १८९॥ अथ दिग्विरति गोपभोगविरतिस्तथा । अनर्थदण्डविरतिश्चैवं गुणव्रतत्रयी ॥ १९ ॥ सामायिकं च देशावकाशिकं पौषधस्तथा । अतिथीनां संविभागः, शिक्षाबतचतुष्टयम् ॥ १९१ ॥ तदेषा देशविरतिः, शुश्रूषादिगुणस्पृशाम् । यतिधर्मानुरक्तानां, धर्मपंथ्यदनार्थिनाम् ॥ १९२॥ 15 शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणम् । सम्यक्त्वं प्रतिपन्नानां, मिथ्यात्वविनिवर्तिनाम् ॥ १९३॥ महात्मनां सानुबन्धक्रोधोदयविवर्जिनाम् । चारित्रमोहंघातेन, जायते गृहमेधिनाम् ॥ १९४ ॥
[त्रिभिर्विशेषकम् ।] स्थूलानामितरेषां च, हिंसादीनां विवर्जनम् । 'सिद्धिनौधैकसरणिः, सा सर्वविरतिर्मता ॥ १९५ ।। प्रकृत्याऽल्पकषायाणां, भवसौख्यविरागिणाम् । विनयादिगुणाऽक्तानां, सा मुनीनां महात्मनाम् ॥१९६।। 20 ___ यत् तापयति कर्माणि, तत् तपः परिकीर्तितम् । तद् बाह्यमनशनादि, प्रायश्चित्तादि चाऽऽन्तरम् ॥१९७।। अनशनमौनोदर्य, वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो, लीनतेति बहिस्तपः ॥ १९८ ॥ प्रायश्चित्तं वैयावृत्यं, स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं, षोढेत्याभ्यन्तरं तपः ॥ १९९ ॥
रत्नत्रयधरेष्वेका, भक्तिस्तत्कार्यकर्म च । शुभैकचिन्ता संसारजुगुप्सा भावना भवेत् ॥ २० ॥ चतुर्धा तदयं धर्मो, निःसीमफलसाधनम् । साधनीयः सावधानैर्भवभ्रमणभीरुभिः ॥ २०१॥ 25
धनोऽप्यूचे मया स्वामिन्!, धर्मोऽयं शुश्रुवे चिरात् । एतावन्ति दिनान्येष,वञ्चितोऽसि खकर्मभिः।।२०२॥ वन्दित्वा गुरुपादाब्जद्वन्द्वं शेषमुनीनपि । धन्यंमन्यो निजावासं, सार्थवाहस्ततो ययौ । २०३ ॥ परमानन्दनिमग्नो, धर्मदेशनया तया । धनस्तां क्षपयामास, क्षणदां क्षणमात्रवत ।। २०४॥ सुप्तोत्थितस्य तस्याऽथ, प्रातर्मङ्गलपाठकः । पपाठ शङ्खगम्भीरमधुरध्वनिबन्धुरः ॥ २०५॥ __ घनान्धकारमलिना, पद्मिनीलक्ष्मितस्करी । व्यवसायहरा नृणां, ययौ प्रावृडिव क्षपा ॥ २०६॥ 30 तेजोऽभिमुखचण्डांभुर्व्यवसायसुहवृषाम् । शरत्काल इव प्रातःकालोऽयं जृम्भतेऽधुना ॥ २०७।। सरसामापगानां च, प्रापुरापः प्रसनताम् । शरदा तत्वबोधेन, मनांसीव मनीषिमाम् ॥ २०८ ॥ सूर्याशुभिः शुष्कपङ्काः, पन्थानः सुगमा भृशम् । आसन् ग्रन्था इवाऽऽचार्योपदेशाच्छिन्नसंशयाः ॥२०९॥ कूलिन्यः कूलयोर्मध्ये, वहन्तीह शनैः शनैः । नेमिसीमन्तयोरन्तः, शकटश्रेणयो यथा ॥ २१०॥
जितेन्द्रियः। २ उदरमात्रपाथेयः । * तस्य प्रासंant'शुद्धिं सं शुद्धिं सं॥ ३ वान्छारहितम् । कुर्यात् । ५ तीर्थस्य भविच्छेदम् । ६ पथ्यदनं शम्बलम् । 'मोहा सं॥ ७ सिद्धिप्रासादैकसोपानमार्गः। ८ कायोत्सर्गः। ९ रात्रिम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org