________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गाऽपवर्गदः । धर्मः संसारकान्तारोल्लङ्घने मार्गदेशकः ॥ १४६ ॥ धर्मो भातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः स्निह्यति बन्धुवत् ॥ १४७॥ धर्मः सङ्गमयत्युच्चैर्गुणान् गुरुरिवोज्वलान् । धर्मः प्रकृष्टां स्वामीव, प्रतिष्ठां च प्रयच्छति ॥ १४८ ॥ धर्मः शर्ममहाहम्यं, धर्मो वर्माऽरिसङ्कटे । धर्मो जोड्यच्छिदाधर्मो, धर्मो मर्माविदंहसाम् ॥ १४९ ॥ धर्माजन्तुर्भवेद् भूपो, धर्माद् रामोऽर्धयपि । धर्माचक्रधरो धर्माद्, देवो धर्माच्च वार्सवः ॥ १५० ॥ ग्रैवेयकानुत्तरेषु, धर्माद् यात्यहमिन्द्रताम् । धर्मादार्हन्त्यमामोति, किं किं धर्मान्न सिध्यति ? ॥१५१॥ दुर्गतिप्रपतजन्तुधारणाद् धर्म उच्यते । दान-शील-तपो-भावभेदात् स तु चतुर्विधः ॥१५२॥
तत्र तावद् दानधर्मस्त्रिप्रकारः प्रकीर्तितः । ज्ञानदाना-ऽभयदान-धर्मोपग्रहदानतः॥ १५३ ॥ दानं धर्मानभिजेभ्यो. वाचनादेशनादिना । ज्ञानसाधनदानं च. ज्ञानदानमितीरितम ॥१५४॥ 10 ज्ञानदानेन जानाति, जन्तुः स्वस्स हिताहितम् । वेत्ति जीवादितत्त्वानि, विरतिं च समश्नुते ॥ १५५ ॥ ज्ञानदानादवामोति, केवलज्ञानमुज्वलम् । अनुगृह्याखिलं लोकं, लोकाग्रमधिगच्छति ॥ १५६ ॥
भवत्यभयदानं तु, जीवानां वधवर्जनम् । मनो-वाकायैः करण-कारणा-ऽनुमतैरपि ॥ १५७ ॥ तत्र जीवा द्विधा ज्ञेयाः, स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः ॥१५८॥
पर्याप्तयस्तु षडिमाः, पर्याप्तत्वनिवन्धनम् । आहारो वपुरक्षाणि', प्राणो भाषा मनोऽपि च ॥ १५९ ॥ 15 स्युरेकाक्ष-धिकलाक्ष-पश्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षड् वापि, पर्याप्तयो यथाक्रमम् ॥ १६०॥
एकाक्षाः स्थावरा भूम्यतेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः, स्युः सूक्ष्मा बादरा अपि ॥ १६१ ।। प्रत्येकाः साधारणाच, द्विप्रकारा महीरुहः । साधारणा अपि द्वेधा, सूक्ष्म-बादरभेदतः ॥ १६२ ।। असा द्वि-त्रि-चतुः-पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा, संज्ञिनोऽसंज्ञिनोऽपि च ॥ १६३ ॥
शिक्षोपदेशाऽऽलापान ये, जानते ते तु संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥ १६४ ॥ 20 स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो, रूपं शब्दश्च गोचरः ॥ १६५ ॥
द्वीन्द्रियाः कृमयः शङ्खाः, गण्डूपदा जलौकसः । कपर्दकाः शुक्तयश्च, विविधाकृतयो मताः ॥ १६६॥ यूका मत्कुण-मर्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः॥ १६७ ॥ तिर्यग्योनिभवाः शेषा, जल-स्थल-खचारिणः । नारका मानवा देवाः, सर्वे पश्चेन्द्रिया मताः ॥ १६८ ॥
लत्पर्यायक्षपाद् दुःखोत्पादात् सङ्क्लेशतस्विधा । वधस्य वर्जनं तेष्वभयदानं तदुच्यते ॥ १६९ ॥ 25 ददात्मभयदान यो, दसेऽर्थात् सोऽखिलानपि । जीविते सति जायेत, यत् पुमर्थचतुष्टयी ॥ १७ ॥
जीवितादपरं प्रेयो, जन्तोर्जायेत जातुचित् । न राज्यं न च साम्राज्यं, देवराज्यं न चोच्चकैः ॥ १७१.॥ इतोऽशुचिस्थस्य कृमेरितः स्वर्गसदो हरेः । प्राणापहारप्रभवं, द्वयोरपि समं भयम् ।। १७२ ॥ समप्रजगदिष्टायाऽभयदानाय सर्वथा । सर्वदाऽप्यप्रमत्तः सन् , प्रवर्तेत ततः सुधीः ॥ १७३ ॥
भवेदश्रयदानेन, जनो जन्मान्तरेषु हि । कान्तो दीर्घायुरारोग्य-रूप-लावण्यशक्तिमान् ॥ १७४ ॥ 30 भर्मोपग्रहदश्नं तु, जायते सत्र पञ्चधा । दायक ग्राहक-देय-काल-भावविशुद्धितः ॥ १७५ ॥
तत्र दायकशुद्धं तस्याबार्थो ज्ञानवान् सुधीः । निराशंसोऽननुतापी, दायकः प्रददाति यत् ।। १७६ ॥ इदं विचमिदं वित्तमिदं पात्रं निरन्तरम् । सञ्जातं यस्य मे सोऽहं, कृतार्थोऽस्पीखि दायकः ॥ १७७ ॥
मार्गदर्शकः । * प्रतिष्ठां ॥ २ शैत्यविच्छेदे धर्मरूपः । ३ बलदेवः। ४ वासुदेवः । ५ चक्रवर्ती । ३ इन्द्रः । तीर्थररवम् । +दितः सं २,॥ अन्तुस्तस्य सं २॥ ८ मोक्षम् । ९ कृतकारितापुमोदितः। १. शरीरम् । "इन्द्रियाणि विकलाक्षशब्दैन द्वीन्द्रियादयो विकलेन्द्रिया प्रायाः । ५ वनस्पतिकायाः। मित्कोट-लि . १४ धर्मार्थकाममोक्षरूपा। १५ नीतिसम्पादितार्थः । १६ निरीहः । १० पात्तापविरहितः।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org