________________
प्रथमः सर्गः ]
त्रिपशिलाकापुरुषचरितम् ।
15
"
तथाऽप्यद्याऽपि तान् दृष्ट्वा, निजांहः क्षालयाम्यहम् । सर्वत्राऽपि निरीहाणां, कार्य तेषां तु किं मया ।। ११५ ।। इति चिन्तयतस्तस्योत्सुकस्य मुनिदर्शने । तुर्यो यामस्त्रियामायास्त्रियामेवाऽपराऽभवत् ॥ ११६ ॥ विभातायां विभावर्या, शुचिवस्त्रविभूषणः | सूरीणामाश्रयमगात्, सप्रधानजनो धनः ॥ ११७ ॥ पलाशच्छद नच्छन्नं, सच्छिद्र तृणभित्तिकम् । स्थलस्थण्डिलसंस्थानं, तेषां सोऽविशदाश्रयम् ॥ ११८ ॥ मन्थानमिव पापाब्धेः पन्थानमिव निर्वृतेः । आस्थानमिव धर्मस्य, संस्थानमिव तेजसाम् ॥ ११९ ॥ कषायगुल्मनीहारं, हारं कल्याणसम्पदः । सङ्घस्याऽद्वैतमार्कल्पं, कल्पद्धुं शिवकाङ्क्षिणाम् ॥ १२० ॥ पिण्डीभूतं तप व मूर्त्तिमन्तमिवाऽऽगमम् | तीर्थङ्करमिवाऽद्राक्षीद्, धर्मघोषमुनिं धनः ॥ १२१ ॥ [ त्रिभिर्विशेषकम् । ] ध्यानाधीनात्मनः कांश्चित, कांश्चिन्मौनावलम्बिनः । कायोत्सर्गस्थितान् कांश्चित् पठतः कांश्चिदागमम् ॥ १२२ ॥ वाचनां ददतः कांश्चित् कांश्चिद् भूमिं प्रमार्जतः । वन्दमानान् गुरून् कांश्चित्, कांश्चिद् धर्मकथाजुषः ॥ १२३ ।। 10 श्रुतमुद्दिशतः कांश्चित् कांश्चित् तदनुजानतः । तत्त्वानि वदतः कांश्चित् तत्राऽद्राक्षीन्मुनीनपि ॥ १२४॥ [ त्रिभिर्विशेषकम् । ] सोsवन्दताssचार्यपादान, साधनपि यथाक्रमम् । तस्मै ते धर्मलाभं च ददुः पापप्रणाशनम् ।। १२५ ।। आचार्य पादपद्मान्ते, राजहंस इवाऽथ सः । निषेधाऽऽसादितानन्द, इति वक्तुं प्रचक्रमे ॥ १२६ ॥ तदाssकारता युष्मान्, भगवन्नात्मना सह । मुधैव सम्भ्रमोऽदर्शि, शरद्गर्जितवन्मया ॥ १२७ ॥ आरभ्य तहिनाद् यूयं, न दृष्टा न च वन्दिताः । न चाऽन्नपानवस्त्राद्यैः कदाचिदपि सत्कृताः ॥ १२८ ॥ जाग्रत्सुषुप्तावस्थेन, मया मूढेन किं कृतम् ? | यद् यूयमवजज्ञिध्वे, ध्वस्तस्ववचसा चिरम् ॥ १२९ ॥ भगवन्तः ! सहध्वं तत् प्रमादाचरणं मम | सर्वंसहा महान्तो हि, सदा सर्वसहोपमाः ।। १३० ॥ सूरयोऽप्यचिरेऽस्माकं त्वया किं किं न सत्कृतम् ? । दुःश्वापदेभ्यो दस्युभ्यस्त्रायमाणेन वर्त्मनि ॥१३१॥ तवैव सार्थिका यच्छन्त्यन्नपानादि चोचितम् । तन्न सीदति नः किञ्चित् मा विषीद महामते ! ॥ १३२ ॥ २० धनोsयूचे गुणानेव सन्तः पश्यन्ति सर्वतः । ततो मम सदोषस्याऽप्याराध्यैरेवमुच्यते ॥ १३३ ॥ सर्वथा स्वप्रमादेन, लज्जितोऽस्मि प्रसीदत | साधून् प्रेषयताऽऽहारं प्रयच्छामीच्छया यथा ।। १३४ ।। सूरिभाषे योगेन वर्त्तमानेन वेत्सि नु । अकृताऽकारिताऽचित्तमन्नाद्युपकरोति नः ॥ १३५ ॥ तदेव दास्ये साधूनां यदेवोपकरिष्यते । इत्युदित्वा च नत्वा च, निजावासं ययौ धनः ॥ १३६ ॥ अस्याऽनुपदमेवाऽथ, साधुद्वितयमागमत् । तदहं चाऽन्नपानादि, दैवादासीन्न किञ्चन ।। १३७ ॥ इतस्ततोऽन्वेपर्यंच, सार्थवाहः स्वयं ततः । ईक्षाञ्चक्रे घृतं स्त्यानं, निजाशयमिवाऽमलम् ।। १३८ ।। इदं वः कल्पते किञ्चिदिति सार्थपतीरिते । इच्छामीति वदन् साधुः पतग्रहमधारयत् ।। १३९ ।। धन्योऽहं कृतकृत्योऽहं पुण्योऽहमिति चिन्तयन् । रोमाञ्चितवपुः सर्पिः साधवे स स्वयं ददौ ॥ १४० ॥ आनन्दाश्रुजलैः पुण्यकन्दं कन्दलयन्निव । घृतदानावसानेऽथ, धनोऽवन्दत तौ मुनी ॥ १४१ ॥ सर्वकल्याणसंसिद्धौ, सिद्धमन्त्रसमं ततः । वितीर्य धर्मलाभं तौ, जग्मतुर्निजमाश्रयम् ॥ १४२ ॥ तदानीं सार्थवाहेन, दानस्यास्य प्रभावतः । लेभे मोक्षतरोबींजं, बोधिवीजं सुदुर्लभम् ॥ १४३ ॥ रजन्यां पुनरप्येषां, मुनीनामाश्रयं ययौ । स प्रविश्याऽनुजानीतेति वदन् प्राणमद् गुरून् ॥ १४४ ॥ धर्मघोष सूरयोsपि, मेघनिर्घोषया गिरा । श्रुतकेवलिदेशीयां, दिदिशुर्देशनामिमाम् ॥ १४५ ॥
"
,
१ स्वपापम् । २ रात्र्याः । ३ मधनदण्डम् । ४ सभास्थानम् । ५ हिमम् । ६ भूषणरूपम् । ७ तदनुज्ञाकारिणः । ८ उपविश्य । ९ आमणं कुर्वता । १० जाग्रताऽपि सुषुप्तावस्थागतेन । ११ पृथ्वी तदुपमा। १२ दुष्टहिंस्रप्राणिभ्यः । १३ चौरेभ्यः । १४ पूज्यैः । १५ अकृतं अकारितं अचित्तं चेति एकवद्भावी द्वन्द्वः । १६ पात्रम् । १७ घृतम् । १८ पुण्याङ्कुरम् । १९ श्रुतकेवलिसमानाम् ।
Jain Education International
For Private & Personal Use Only
5
25
80
www.jainelibrary.org