________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व जिह्वामकर्षन् महिषा, निःश्वासप्रेरितामिव । विविशुश्च नदीपङ्केष्ववधीरितकाहराः ॥ ८३ ॥ रथिकानवमत्यापि, प्रार्जनेषु पतत्स्वपि । उन्मार्गपादपानीयुरुक्षाणश्च क्षणे क्षणे ॥ ८४ ॥ तप्तायःसूचीसदृशै, रोचिभिश्चण्डरोचिषः । व्यलीयन्त शरीराणि, विष्वग् मदनपिण्डवत् ॥ ८५ ॥ ततायःफालकरणिं, तरणिनितरां दधौ । पथि क्षिप्तकरीपाग्निवैषम्यं पांशवोऽवहन् ॥ ८६ ॥ प्रविश्य मार्गसरितः, परितः सार्थयोषितः । उन्मूल्य नलिनीनालान् , गलनालेषु चिक्षिपुः ॥ ८७ ॥ धर्माऽम्भःक्लिन्नवासोभिरशोभन्त भृशं पथि । जलाः इव विभ्रत्यः, सार्थपान्थपुरन्ध्रयः ॥ ८८ ॥ पलाशतालहिन्तालनलिनीकदलीदलैः । तालवृन्तीकृतैः पान्थाश्चिच्छिदुर्घर्मजं श्रमम् ।। ८९ ॥ ग्रीष्मस्येव स्थितिच्छेदं, गतिच्छेदं प्रवासिनाम् । विदधानः समागच्छन्मेपचिह्नमृतस्ततः ॥९० ॥
यातुधान इवाऽऽकाशे, दधानो धन्व वारिदः । कुर्वन् धाराशरासारं, सार्थेनोत्रासमैक्ष्यत ॥ ९१ ॥ 10 अलातमिव तडितं, तडित्वान् भ्रमयन् मुहुः । निर्भरं भापयामास, पथिकान् बालकानिव ॥ ९२ ॥
अभ्रंलिहैः पयःपूरैः, कूलिनीनां प्रसारिभिः । कूलानि पान्थहृदयानीव सद्यो विददिरे ॥ ९३॥ सलिलैनींचमुच्चं च, सर्वमुर्त्या समीकृतम् । जडानामुदये हन्त !, विवेकः कीदृशो भवेत् १ ॥ ९४ ॥ पयोभिः कण्टकैः पङ्केदुर्गमत्वेन वर्त्मनः । योजनानां शतमिव, क्रोशोऽपि समजायत ॥ ९५ ॥
अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव, प्रचचाल शनैः शनैः ॥९६ ॥ 15 धर्तु प्रतिपथं पान्थान् , दुर्दैवेन प्रसारिताः । प्रवाहच्छमना दीर्घाः, स्वबाहुपरिधा इव ॥ ९७॥
अमजन्नभितः पङ्कविकटे शकटाः पथि । चिरं कृतविमर्दोत्थरोपाद् ग्रस्ता इवेलया ॥ ९८॥ अवरुह्याऽऽकृष्यमाणा, औष्ट्रिकै तरज्जुभिः । पथि क्रमेलकाः पेतुर्घश्यत्पादाः पदे पदे ॥ ९९॥ दुर्गत्वं वर्त्मनां प्रेक्ष्य, सार्थवाहस्ततो धनः । तस्यामेव महाटव्यां, दत्त्वा वासानवास्थित ॥ १००।। अतिवाहयितुं वर्षाश्चक्रे तत्रोटजान् जनः । न हि सीदन्ति कुर्वन्तो, देशकालोचितां क्रियाम् ॥१०१॥ दर्शिते माणिभद्रेण, निर्जन्तुजगतीतले । उटजोपाश्रयेऽवात्सुः, सूरयोऽपि ससाधवः ॥१२॥ भूयस्त्वात् सार्थलोकस्य, दीर्घत्वात् प्रावृषोऽपि च । अत्रुट्यत् तत्र सर्वेषां, पाथेययवसादिकम् ॥ १०३ ॥ ततश्चेतस्ततश्चेलुः, कुचेलास्तापसा इव । खादितुं कन्दमूलादि, क्षुधार्ताः सार्थवासिनः ॥१०४॥ ___ अथ तत् सार्थनाथस्य, सार्थदौःस्थ्यमशेषतः । विज्ञप्तं माणिभद्रेण, तन्मित्रेण निशामुखे ॥ १०५ ॥ सार्थवाहः सार्थदुःखचिन्तासन्ताननिश्चलः । तस्थौ निवातनिष्कम्प, इव पाथोनिधिस्ततः ॥१०६ ॥ तस्य चिन्ताप्रपन्नस्य, निद्राऽभूत् क्षणमात्रतः । अतिदुःखाऽतिसौख्ये हि, तस्याः प्रथमकारणम् ॥ १०७ ॥ यामिन्याश्चरमे यामे, मन्दुरायामपालकः । ततश्च कश्चिदप्येवमपाठीदशठाशयः ॥ १०८ ॥
प्रत्याशं विस्फुरत्कीर्तिः, प्राप्तोऽपि विषमां दशाम् । स्वामी नः पालयत्यात्मप्रतिपन्नमसावहो ! ॥१०९॥ _तदाकर्ण्य धनो दध्यावुपालब्धोऽस्मि केनचित् । अस्तीह मामके सार्थे, को नामाऽत्यन्तदुःस्थितः ? ॥११०॥
आ ज्ञातं सन्ति मे धर्मघोषाचार्याः सहागताः । अकृताऽकारितप्रासुभिक्षामात्रोपजीविनः ॥ १११ ॥ 30 कन्दमूलफलादीनि, स्पृशन्त्यपि न ये क्वचित् । अधुना दुःस्थिते सार्थे, वर्तन्ते हन्त ! ते कथम् ?॥११२॥
मार्गकृत्यमुरीकृत्य, पथि यानहमानयम् । तानद्यैव समस्मार्ष, किमकार्षमचेतनः ? ॥ ११३ ॥ वामात्रेणापि नो येषामद्य यावत् कृतौचिती । स्वमुखं दर्शयिष्यामि, तेषामद्य कथं न्वहम् ? ॥ ११४ ।।
तिरस्कृतकशाविशेषाः । २ "परोणी" इति भाषायाम्। ३ सूर्यस्य । ४ सदृशम्। ५ सूर्यः। * प्राविशन् मार्ग सं१,२. खं॥ स्त्रियः। राक्षसः । ८ प्रज्वलत्काष्ठम् । ९ मेघः । १० अत्र डलयोरैक्यात् जलानामित्यपि वक्तव्यम् । ११ स्वबाहुरूपार्गला इव । ११ भूम्या । १३ उष्ट्रारूढः। तत्रैव च म सं ॥श्चक्रुस्तत्रोटजान् जनाः सं १, खं ॥ १४ समुद्रः। १५ वाजिशालाप्राहरिकः । १६ उचिताचरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org