________________
MY
प्रथमः सर्गः ]
त्रिपष्टिदालाकापुरुषचरितम् । अत्रान्तरे धर्मघोष, आचार्यः साधुचर्यया । धर्मेण पावयन् पृथ्वीं, सार्थवाहमुपाययौ ॥५१॥ ससम्भ्रममथोत्थाय, धनो दीपं तपस्त्विषा । सहस्रांशुमिवाऽऽचार्यमवन्दत कृताञ्जलिः ॥५२॥ धनेन पृष्टास्त्वाचार्याः, समागमनकारणम् । वसन्तपुरमेष्यामस्त्वत्सार्थेनेत्यचीकथन् ॥ ५३॥ सार्थवाहोऽप्युवाचैवं, धन्योऽद्य भगवनहम् । अभिगम्या यदायाता, मत्सार्थेन च यास्यथ ॥ ५४ ॥ आचार्याणां कृतेऽमीषामनपानाधमन्वहम् । सम्पादनीयं युष्माभिः, सूदानित्यादिशच सः॥ ५५ ॥ आचार्या अप्यचोचन्त, यतीनामशनादिकम् । अकृतं चाऽकारितं चाऽसङ्कल्प्यं चापि कल्पते ॥ ५६ ॥ वापीकूपतडागादिगतं वार्यपि वार्यते । अस्त्रिोपहतं सार्थनाथ ! जैनेन्द्रशासने ॥ ५७ ॥ __ अत्रान्तरे च केनापि, सार्थवाहस्य दौकितम् । पक्कचूताश्चितं स्थालं, भ्रष्टसन्ध्याभ्रसन्निभम् ॥५८॥ प्रमोदमेदरमना, निजगाद ततो धनः। फलान्यमनि ग्रहीताऽनुग्रहीत च मामिति ॥ ५९॥ सूरिरूचे फलादीगशस्त्रोपहतं हि नः । न स्प्रष्टुमपि कल्पेत, किं पुनः श्राद्ध ! खादितुम् ? ॥ ६० ॥ 10 धनोऽवोचदहो ! कापि, दुष्करवतकारिता । शक्यं दिनमपीक्षैभवितुं न प्रमादिभिः ॥ ६१ ॥ कल्प्यं वः स्याद् यदन्नादि, तद् दास्यामि प्रसीदत । चलताऽद्येत्युदित्वा तान् , नत्वा च व्यसृजन्मुनीन् ॥६२॥ सार्थवाहस्ततोऽचालीत् , चञ्चलैस्तुरगैर्मयैः । शकटैरुक्षेभिस्तुङ्गैस्तरङ्गैरिव सागरः ॥ ६३ ॥ अथ प्रचेलुराचार्या, अपि साधुभिरावृताः । मूर्ततामाश्रितैर्मूलगुणोत्तरगुणैरिव ॥ ६४ ॥ सार्थस्याऽग्रे धनः पृष्ठे, माणिभद्रः सखाऽस्य तु । ईयतुः पार्श्वयोस्त्वश्ववारवाराववारितौ ॥६५॥ 15 श्वेतच्छत्रैः स चक्रे यां, शरदभ्रमयीमिव । मायरैरातपत्रैश्च, प्रावृडब्दमयीमिव ॥६६॥ करभैः सैरिभैरुक्षवरैरश्वतरैः स्क्रैः । तस्योहे दुर्वहं भाण्डं, घुनवातैरिव क्षितिः ॥ ६७ ॥ वेगादलक्ष्यमाणाधिपाता वातमजा इव । ययुः पार्श्वस्थगोणीभिरुत्पक्षा इव वेसरीः ॥६८ ॥ यूनामन्तर्निविष्टानों, तत्र क्रीडानिवन्धनम् । जङ्गमानीव वेश्मानि, शकटानि चकासिरे ॥ ६९ ॥ महाकाया महास्कन्धा, महिषास्तोयचाहिनः 1 महीं प्राप्ता इवाऽम्भोदा, जनानां चिच्छिदुस्तृर्षम् ॥ ७० ।। 20 तदा तद्भाण्डसम्भारभाराकान्ता समन्ततः । शकटश्रेणिचीत्कारै, ररासेव वसुन्धरा ॥ ७१ ॥ औक्षकेणौष्ट्रकेणाऽऽश्वेनोद्भूतः पांशुरानशे । तथा दिवं यथा विष्वक, सूचीभेद्यं तमोऽभवत् ॥ ७२ ॥ उक्ष्णां घण्टाटणत्कारैर्बधिरीकृतदिशुखैः 1 चमर्यस्तत्रसुर्दरादुत्कास्तर्णकैः समम् ॥ ७३ ॥ महाभार वहन्तोऽपि, कामन्तोऽपि क्रमेलकाः । वलितग्रीवमग्राणि, भूरुहां लिलिहुर्मुहुः ॥ ७४ ॥ उत्कर्णसरलग्रीवा, दशन्तो दशनैर्मिथः । पृष्ठप्रतिष्ठकण्ठालाः, प्रष्ठा एवाऽभवन् खराः ॥ ७५ ॥ आरक्षकैः प्रतिदिशं, वेष्टितः शस्त्रपाणिमिः । वज्रपञ्जरमध्यस्थ, इव सार्थोऽवहत् पथि ॥ ७६ ॥ महार्थस्यापि सार्थस्य, दूरेऽस्थुस्तस्य दस्यवः । महाघमौलिरत्वस्य, भुजङ्गमपतेरिव ॥ ७७ ॥ निःस्वाऽऽध्ययोनिर्विशेष, योगे क्षेमे च सोद्यमः । धनः सर्वान् सहाऽनपीद् , यूथेशः कलभानिव ॥७॥ आशास्थमानः सकलैलोकैः स्फारितलोचनैः । दिने दिने रविरिख, प्रयाणमकरोद् धनः ॥ ७९ ॥ सरसां सरितां चाऽऽपस्तनूकुर्वन् निशा इव । उद्दामः समभूत् पान्थभीष्मो श्रीष्मऋतुस्तदा ।। ८० 30 राष्ट्रमिन्धा इब क्वुर्वायवोऽत्यन्तदुःसहाः । आतपं तपनस्तेचे, विष्वम् वहिच्छटोपमम् ॥ ८१ ॥ तत्सार्थपथिकास्तस्थुरनुपातं तरं तरुम् । प्रपा प्रपा प्रवेशं च, पायं पायं पयोऽलुठन् । ८२ ॥
* दीसं भा ॥१सूर्यमिव । २ अप्रासुकम् । ३ उष्ट्रः। ४ बलिष्यवृषभैः । ५ उष्टैः । ६ महिषैः । ७ धनवाताः पृथ्व्याधारभूता कतविशेषाः। ८ पबनाभिमुखचारिणो मृगविशेषाः । ९ खचराः। तृषां सं १॥ १० लघुवत्सकैः। १५ उष्ट्राः । १२ निर्धवधनाख्ययोः। १५ अप्राप्तख प्राप्युपायो योगः। १४ प्राप्तस्य रक्षणं क्षेमः। सार्थान् सं॥ १५ लघुगजात् । १६ सूर्यः
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org