________________
[प्रथमं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं अरनाथः स भगवांश्चतुर्थाऽरनभोरविः । चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः ॥२०॥ सुराऽसुरनराधीशमयूरनववारिदम् । कर्मदून्मूलने हस्तिमल्लं मल्लिमभिष्टुमः ॥ २१ ॥ जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥
लुठन्तो नमतां मूर्भि, निर्मलीकारकारणम् । वारिप्लंवा इव नमः, पान्तु पादनखांशकः ॥ २३ ॥ 5 यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । अरिष्टनेमिर्भगवान् , भूयाद् वो रिष्टनाशनः ॥ २४ ॥
कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥ २५ ॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः । ईपद्वाष्पार्द्रयोभद्रं, श्रीवीरजिननेत्रयोः ॥ २६ ॥
एषां तीर्थकृतां तीर्थेष्वासन द्वादशै चक्रिणः । नवाऽर्धचेंक्रिणो रामास्तथा प्रत्यर्धचक्रिणः ॥ २७॥ एते शलाकापुरुषा, भूतभाविशिवश्रियः । त्रिषष्टिरवसर्पिण्यां, भरतक्षेत्रसम्भवाः ॥ २८ ॥ 10 एतेषां चरितं ब्रूमः, शलाकापुंस्त्वशालिनाम् । महात्मनां कीर्तनं हि, श्रेयोनिःश्रेयसास्पदम् ॥ २९ ॥ तत्र तावद् भगवतश्चरित्रमृषभप्रभोः । बोधिवीजावाप्तिहेतोर्भवादारभ्य वर्ण्यते ॥ ३० ॥
अस्त्यसङ्ख्याम्बुधिद्वीपवलयैः परिवेष्टितः । जम्बूद्वीप इति द्वीपो, वज्रवेदिकयाऽऽवृतः ॥ ३१ ॥ भूषितस्य संवन्तीभिवर्षधरैरपि । स्वर्णरत्नमयो मेमध्ये तस्याऽस्ति नाभिवत् ॥ ३२ ॥
स लक्षयोजनोच्छ्रायो, मेखलात्रयभूपितः । चत्वारिंशयोजनोच्चचूलोऽर्हचैत्यमण्डितः ॥ ३३ ॥ 15 अस्ति पश्चिमतस्तस्य, विदेहेषु महापुरम् । क्षितिप्रतिष्ठितं नाम, क्षितिमण्डलमण्डनम् ॥ ३४ ॥
तत्र प्रसन्नचन्द्रोऽभूनिस्तन्द्रो धर्मकर्मसु । देवराजोपमो राजा, राजमानो महर्द्धिभिः ॥ ३५॥ तत्र चाऽऽसीत् सार्थवाहो, धनो नाम यशोधनः । आस्पदं सम्पदामेकं, सरितामिव सागरः ॥ ३६ ॥ आसंस्तस्य महेच्छस्याऽनन्यसाधारणाः श्रियः । परोपकारैकफला, रुचो हिमरुचेरिव ॥ ३७ ॥
सदा सदाचारनदीप्रवाहैकमहीधरः । सेवनीयो न कस्याऽऽसीत् , स महीतलपावनः? ॥ ३८॥ 120 तस्मिन्नौदार्यगाम्भीर्यधैर्यप्रभृतयो गुणाः । आसन् बीजान्यमोघानि, प्रभवाय यशस्तरोः ॥ ३९ ॥
कणानामिव रत्नानामुत्करास्तस्य वेश्मनि । गोणीनामिव देवाङ्गवाससामपि राशयः ॥ ४० ॥ अश्वैरश्वतरैरुष्ट्रहिनैरपरैरपि । तस्य वेश्म व्यराजिष्ट, यादोभिरिव सागरः ॥४१॥ धनिनां गुणिनां कीर्तिशालिनां च नृणामसौ । धुर्यत्वं धारयामास, प्राणोऽङ्गमरुतामिव ॥ ४२ ॥
अर्थस्तस्य महार्थस्य, पर्यपूर्यन्त सेवकाः । महामरोवरस्येव, स्यैन्दैरभ्यर्णभूमयः ॥ ४३ ॥ 25 स गृहीतमहाभाण्ड, उत्साह इव मूर्तिमान् । ईहाश्चक्रेऽन्यदा गन्तुं, वसन्तपुरपत्तनम् ॥४४॥
सार्थवाहो धनस्तस्मिन् , सकलेऽपि पुरे ततः । डिण्डिमं ताडयित्वोचैः, पुरुषानित्यघोषयत् ॥ ४५ ॥ असौ धनः सार्थवाहो, वसन्तपुरमेष्यति । ये केऽप्यत्र यियासन्ति, ते चलन्तु सहाऽमुना ॥ ४६॥ भाण्डं दास्यत्यभाण्डायाऽवाहनाय च वाहनम् । सहायं चाऽसहायायाऽशम्बलाय च शम्बलम् ॥ ४७॥
दस्युभ्यस्त्रास्यते मार्गे, श्वापदोपद्रवादपि । पालयिष्यत्यसौ मन्दान् , सहगान् बान्धवानिव ॥४८॥ 30 क्षणे से कल्यः कल्याणे, कुलस्त्रीकृतमङ्गलः । रथमास्थाय विदधे, प्रस्थानं पत्तनाद् बहिः॥४९॥
प्रस्थानभेरीमाङ्कारैराकारकनरैरिव । जनाः सर्वेऽपि तत्रेयुर्वसन्तपुरगामिनः ॥ ५० ॥
मोक्षलक्ष्मीविलासम् । २ जलप्रवाहाः। * तश्च न सं १॥ ३ नदीभिः । ४ क्षेत्रैः । ५ कुलपर्वतैः। ६ आलस्यरहितः । ७ इन्द्रतुल्यः। ८ स्थानम् । ९ चन्द्रस्य । १० राशयः । ११ खचरैः। १२ जलजन्तुभिः। १३ अङ्गमरुतां-अङ्गान्तर्गतसर्ववायूना मध्ये प्राणो नाम वायुर्यथा धुर्यत्वं धारयामास तथा । १४ क्षुद्रप्रवाहैः। १५पाथेयम् । सकल्यकल्या सं२॥ १६ नीरोगी। १७ आह्वानकारकैः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org