________________
तृतीयः सर्गः ]
त्रिपष्टिशलाकापुरुषचरितम् ।
उत्पन्नकेवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽचमिति दध्यौ क्षणं नृपः ॥ ५१४ ॥ व विश्वाभयदस्तातः ?, क्व चक्रं प्राणिघातकम् ? । विमृश्येति स्वामिपूजाहेतोः खानादिदेश सः ।। ५१५ ।। यथोचितमथो दवा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च ।। ५१६ ।। देवि! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् ॥५१७॥ त्रैलोक्यस्वामिताभाजः, स्वसनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽरोहयामास तां गजे ।। ५१८ ।। 5 सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मूर्त्त श्रीमयैः सोऽचलत् ततः ॥ ५१९ ॥ सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः || ५२० ॥ मरुदेवामथाऽवादीद्, भरतः परतो ह्यदः । प्रभोः समवसरणं, देवि ! देवैर्विनिर्मितम् ।। ५२१ ॥ अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् ॥ ५२२ ॥ गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिर्नदन् । तनोति हृदयानन्दं, वैतालिक इव प्रभोः ॥ ५२३ ॥ स्वामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवणातिथिरेष नः ॥ ५२४ ॥ स्वामिदर्शनहृष्टानां, क्ष्वेडानादो दिवौकसाम् । स्तनितं स्तनयिलूनामिवैष श्रूयते दिवि ।। ५२५ ॥ गन्धर्वाणामियं गीतिग्रमरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्यत्यानन्दमद्य नः ।। ५२६ ।।
|
शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रपयः पूरैः पङ्कवन्नीलिका दृशोः ||५२७|| साऽपश्यत् तीर्थकुलक्ष्मी, सूनोरतिशयान्विताम् । तस्यास्तद्दर्शनानन्दात्, तन्मयत्वमजायत ।। ५२८ ॥ 15 साssरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत्, केवलज्ञानमासदत् ॥ ५२९ ॥ करिस्कन्धाधिरूढैव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् ॥ ५३० ॥ एतस्यामवसर्पिण्यां, सिद्धोऽसौ प्रथमस्ततः । सत्कृत्य तद्वपुः क्षीरनीरधौ निदधेऽमरैः ॥ ५३१ ॥ तदादि च प्रववृते, लोके मृतकपूजनम् । यत् कुर्वन्ति महान्तो हि तदाचाराय कल्पते ।। ५३२ ।। ततो विज्ञाततन्मोक्षो, हर्ष- शुग्भ्यां समं नृपः । अभ्रच्छायाऽर्कतापाभ्यां शरत्काल इवाऽऽनशे ॥ ५३३ || 20 सन्त्यज्य राज्यचिह्नानि, पदातिः सपरिच्छदः । उदग्द्वारेण समवसरणं प्रविवेश सः ॥ ५३४ ॥ चतुर्भिर्देवनिकायैः, स्वामी परिवृतस्तदा । ददृशे भरतेशेन, दृक्चकोरनिशाकरः ।। ५३५ ।। विश्व प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाञ्जलिः स्तोतुमिति चत्री प्रचक्रमे ॥ ५३६ ॥ जयाsखिलजगन्नाथ !, जय विश्वाभयप्रद ! | जय प्रथमतीर्थेश !, जय संसारतारण ! ।। ५३७ ॥ अद्याऽवसर्पिणीलोकपद्माकरदिवाकर ! । त्वयि दृष्टे प्रभातं मे, प्रनष्टतमसोऽभवत् ।। ५३८ ॥ तेषां दूरे न लोकाग्रं, कारुण्यक्षीरसागर ! । समारोहन्ति ये नाथ !, त्वच्छासनमहारथम् ।। ५३९ ।। लोकाग्रतोऽपि संसारमग्रिमं देव ! मन्महे । निष्कारणजगद्वन्धुर्यत्र साक्षात् त्वमीक्ष्यसे ॥। ५४० ॥ त्वदर्शनमहानन्दस्यन्दनिष्यन्दलोचनैः । स्वामिन् ! मोक्षसुखास्वादः, संसारेऽप्यनुभूयते ॥ ५४१ ॥ रागद्वेषकषायाद्यै, रुद्रं जगदरातिभिः । इदमुद्वेष्यते नाथ !, त्वयैवाऽभयसत्रिणा ।। ५४२ ॥ नानावस्कन्दसङ्ग्रामहतग्रामभुवो मिथः । मित्रीभूयेह तिष्ठन्ति राजानस्तव पर्षदि ॥ ५४३ ॥ त्वत्पद्ययमायातः, करंटी करटस्थलीम् । करेण केसरिकरं, कृष्ट्वा कण्डूयते मुहुः ॥ ५४४ ॥ इतश्व महिषमिव, महिषोऽयं मुहुर्मुहुः । स्नेहतो जिह्वया मार्ष्टि, हेषमाणमिमं हयम् ॥ ५४५ ॥ लीलालोलितलाङ्गूल, उत्कर्णोन्नमिताननः । घ्राणेन व्याघ्रवदनं जिघ्रत्ययमितो मृगः ॥ ५४६ ॥ पार्श्वयोरग्रतः पश्चाल्ललन्तं निजपोतवत् । अयं तरुणमार्जारः समाश्लिष्यति मूषकम् ॥ ५४७ ॥ हृदि खंता ॥ ५ गजः ।
"
१ मूर्तिमलक्ष्मीमयैः । २ महान् । * किङ्कणीना खंता ॥ ३ कर्णगोचरः । ४ सिंहनादः । ६ शब्दं कुर्वाणम् । । मूषिकम् खं, सं २, मूषिकाम् आ ॥
Jain Education International
For Private & Personal Use Only
७५
10
25
30
www.jainelibrary.org