________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व अयं च निर्भयो भोगं, कुण्डलीकृत्य कुण्डली । अदबभ्रोरभ्यणे, निषीदति वयस्यवत् ॥ ५४८ ॥ देव! ये केचिदन्येऽपि, जीवाः शाश्वतवैरिणः । निर्वैरास्तेऽत्र तिष्ठन्ति, त्वत्प्रभावोऽसमो ह्ययम् ॥५४९ ॥
इति स्तुत्वा जगन्नाथमपक्रम्याऽऽश्रितक्रमः । निषसाद महीनाथो, छुसन्नाथस्य पृष्ठतः ॥ ५५० ॥ क्षेत्रे योजनमात्रेऽपि, सत्त्वानां कोटिकोटयः । ममुस्तसिन् निराबाधं, तीर्थनाथप्रभावतः ॥५५१ ॥ अभुओंजनगामिन्या, सर्वभाषास्पृशा गिरा । पञ्चत्रिंशदतिशयजुषेमां देशनां व्यधात् ॥ ५५२ ।।
आधिव्याधिजरामृत्युज्वालाशतसमाकुलः । प्रदीप्तागारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ ५५३ ॥ न युज्यते तद् विदुषः, प्रमादोत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लङ्घन्थे मरुस्थले ? ॥५५४ ॥ संसाराधाविहाऽनेकयोन्यावर्ताकुले जनैः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥ ५५५ ॥
परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥ ५५६ ॥ 10 आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववञ्चकाः ॥ ५५७ ॥
पदाथोनामशेषाणां, संसारोदरवर्तिनाम् । संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्रयाः। आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्वराण्येव, संसारेऽस्मिन् शरीरिणाम् ॥ ५५९ ॥ 'संसारस्याऽस गतिषु, चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥ ५६० ।।
तथाहि क्षेत्रदोषेण, परमाधार्मिकैरपि । मिथवाऽऽक्लिश्यमानानां, नारकाणां कुतः सुखम् ? ॥ ५६१ ॥ 15 शीतवातातपाम्भोभिर्वधबन्धक्षुदादिभिः । विविधं वाध्यमानानां, तिरश्चामपि किं सुखम् ? ॥ ५६२॥
गर्भवासजनिव्याधिजरादारिद्यमृत्युजैः । क्रोडीकूतानामसुखैर्मनुष्याणां कुतः सुखम् ? ॥ ५६३ ॥ अन्योऽन्यमत्सरामर्षकलहच्यवनाऽसुखैः । सुखलेशोऽपि नैवाऽस्ति, कदाचिद् घुसदामपि ॥ ५६४ ॥ अज्ञानाजन्मिनो भूयो, भूयः संसारसम्मुखम् । तथापि परिसर्पन्ति, नीचाभिमुखमम्बुक्त् ॥ ५६५ ॥ -तद् भव्यातनावन्तो, निजेनाऽनेन जन्मना । मा पोषयत संसारं, दुग्धेनेव भुजङ्गमम् ॥ ५६६ ॥ 20 संसारवासजं दुःखं, विचार्य तदनेकधा । सर्वात्मनाऽपि मोक्षाय, यतध्वं हे विवेकिनः! ॥५६७ ॥
गर्भवासथवं दुःखं, नरकाऽसुखसन्निभम् । संसारवन्न मोक्षेऽस्ति, जीवानां हन्त ! जातुचित् ॥५६८॥ घटीमध्याकृष्यमाणनारकार्तिसहोदरा । नेह प्रसवजन्माऽपि, जायते जातु वेदना ॥ ५६९ ॥ बहिरन्त परिक्षिप्तशल्यतुल्या भवन्ति च । नाऽऽधयो व्याधयो नापि, तत्र बाधानिबन्धनम् ॥ ५७० ॥
अग्रदूखी कूतान्तस्य, तेजःसर्वखतस्करी । पराधीनत्वजननी, न जरा तत्र सर्वथा ॥ ५७१॥ 25 सञ्जायते नारकिकतियेग्नुधुसदामिव । न तत्र मरणं भूयो, भवभ्रमणकारणम् ॥ ५७२ ॥
किन्तु तत्र महानन्दं, मुखमद्वैतमव्ययम् । रूपं च शाश्वतं ज्योतिः, केवलालोकभास्करम् ॥ ५७३ ।। स च सम्प्राप्यते मोक्षः, शीलयद्भिर्निरन्तरम् । ज्ञानदर्शनचारित्ररत्नत्रितयमुज्वलम् ॥ ५७४ ॥
तत्र जीवादितत्त्वानां, सझेपाद् विस्तरादपि । यथावदवबोधो यः, सम्यग्ज्ञानं तदुच्यते ॥ ५७५ ॥ मतिश्रुताऽवधिमक पर्यायैः केवलेन च । अमीभिः सान्वयैर्भेदैस्तत् तु पञ्चविधं मतम् ॥ ५७६ ॥ 30
अवग्रहादिभिभिवं, बह्वायैस्तिरैरपि । इन्द्रियानिन्द्रियभवं, मतिज्ञानमुदीरितम् ॥ ५७७ ॥ विस्तृतं बहुधा पूरङ्गोपाङ्गः प्रकीर्णकैः । स्थाच्छब्दलाञ्छितं ज्ञेयं, श्रुतज्ञानमनेकधा ॥ ५७८ ॥ देवनैरयिकागां स्यादवधिर्भवसम्भकः । षड्विकल्पस्तु शेषाणां, क्षयोपशमलक्षणः ॥ ५७९ ॥ ऋजुर्विपुल इत्येवं, स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां, तद्विशेषोऽवगम्यताम् ॥ ५८० ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं, केवलज्ञानमुच्यते ॥ ५८१ ॥
। सर्पः । २ महानकुलस्म । * संयोगाः स्युर्वियोगान्ताः सं॥ + अयं श्लोकः पा. पुस्तके न दृश्यते । ३ जन्तोः। ४ अङ्कस्थापितानाम्।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org