________________
७७
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । रुचिः श्रुतोक्ततत्त्वेषु, सम्यश्रद्धानमुच्यते । जायते तनिसर्गेण, गुरोरधिगमेन वा ॥ ५८२ ॥ तथाधनाधन्तमवावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेद्यान्तरायाभिधकर्मणाम् ॥ ५८३ ॥ सागरोपमकोटीनां, कोट्यस्त्रिंशत् परा स्थितिः । विंशतिर्गोत्रनाम्नोथ, मोहनीयस्य सप्ततिः ॥ ५८४ ॥ ततो गिरिसरिद्रावघोलनान्यायतः स्वयम् । क्षीयन्ते सर्वकर्माणि, फलानुभवतः क्रमात् ॥ ५८५ ॥ एकोनत्रिंशदेकोनविंशत्येकोनसप्ततीः । सागराणां कोटिकोटीः, स्थितिमुन्मूल्य कर्मणाम् ॥ ५८६ ॥ देशोनैकावशिष्टाब्धिकोटिकोटौ तु जन्मिनः । यथाप्रवृत्तिकरणाद्, ग्रन्थिदेशं समिति ॥५८७॥ [युग्मम्] रागद्वेषपरीणामो, दुर्भदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेखि सर्वदा ॥ ५८८ ॥ तीराभ्यर्णान्महापोता, इव वातसमाहताः । रागादिप्रेरिताः केऽपि, व्यावर्त्तन्ते ततः पुनः ॥ ५८९ ॥ तत्रैव तत्परीणामविशेषादासतेऽपरे । स्थलस्खलितगमनान्यम्भांसि सरितामिव ॥ ५९० ॥ अपरे ये पुनर्भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणेन ते ॥ ५९१ ॥ अतिक्रामन्ति सहसा, तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो, घट्टभूमिमिवाऽध्वगाः ॥५९२ ॥ अथाऽनिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकृत्य, चतुर्गतिकजन्तवः ॥ ५९३ ॥ आन्तर्मुहर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक् श्रद्धानमुच्यते ॥ ५९४ ॥ [युग्मम्] गुरूपदेशमालम्ब्य, भव्यानामिह देहिनाम् । सम्यक् श्रद्धानं तु यत् तद्, भवेदधिगमोद्भवम् ॥ ५९५ ॥
तच स्यादौपशमिकं, साखादनमथाऽपरम् । क्षायोपशमिकं वेद्यं, क्षायिकं चेति पञ्चधा ॥ ५९६॥ 15 तत्रौपशमिकं भित्रकर्मग्रन्थेः शरीरिणः । सम्यक्त्वलामे प्रथमेऽन्तर्मुहूत्र्तं प्रजायते ॥ ५९७॥ तथोपशान्तमोहस्योपशमश्रेणियोगतः । मोहोपशमजमौपशमिकं तु द्वितीयकम् ॥ ५९८॥ त्यक्तसम्यक्त्वभावस्य, मिथ्यात्वाभिमुखस्य च । तथाऽभ्युदीर्णानन्तानुबन्धिकस्य शरीरिणः ॥५१॥ यः सम्यक्त्वपरीणाम, उत्कर्षेण षडावलिः । जघन्येनैकसमयस्तत् सास्वादनमीरितम् ॥६००॥ अथ तृतीयं मिथ्यात्वमोहक्षयशमोद्भवम् । सम्यक्त्वपुद्गलोदयपरिणामवतो भवेत् ॥ ६०१॥ 20 वेदकं नाम सम्यक्त्वं, क्षपकश्रेणिमीयुषः । अनन्तानुबन्धिनां तु, क्षये जाते शरीरिणः ॥ ६०२॥। मिथ्यात्वस्याऽथ मिश्रस्य, सम्यग् जाते परिक्षये । क्षायिकसम्मुखीनस्य, सम्यक्त्वाऽन्त्यांशभोमिनः।।६०३॥ शुभभावस्य प्रक्षीणसप्तकस्य शरीरिणः । सम्यक्त्वं क्षायिकं नाम, पञ्चमं जायते पुनः ॥६०४॥
सम्यग्दर्शनमेतच, गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव, कारकं चेति नामतः ॥ ६०५॥ तत्र श्रुतोक्ततत्त्वेषु, हेतूदाहरणेविना । दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ॥ ६०६॥ 25 दीपकं तद् यदन्येषामपि सम्यक्त्वदीपकम् । कारकं संयमतपःप्रभृतीनां तु कास्कम् ॥ ६०७ ॥ ___ शम-संवेम-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत् तु लक्ष्यते॥६०८॥ अनन्तानुबन्धिकषायाणामनुदयः शमः । स प्रकृत्या कषायाणां, विपाकेक्षणतोऽपि वा ॥ ६०९ ॥ ध्यायतः कर्मविपाकं, संसाससारतामपि । यत् स्याद् विषयवैराग्यं, स संवेग इतीस्तिः ॥ ६१०॥ संसारवासः कारव, बन्धनान्येव बन्धयः । ससंवेगस्य चिन्तेयं, या निर्वेदः स उच्यते ॥ ६११॥ 30. एकेन्द्रियप्रभृतीनां सर्वेषामपि देहिनाम् । भवाब्धौ मञ्जतां क्लेशं, पश्यतो हृदयार्द्रता ॥ ६१२ ।। तद्दुःखैदुःखितत्वं च, तत्प्रतीकारहेतुषु । यथाशक्ति प्रवृत्तिश्चेत्यनुकम्पाभिधीयते ॥ ६१३ ॥ [युम्मम् ] तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वाहतेषु तु । प्रतिपत्तिनिराकासा, तदास्तिक्यमुदीरितम् ॥ ६१४ ॥ सम्यग्दर्शनमित्युक्तं, प्राप्तावस्य क्षणादपि । मत्यज्ञानं पुराऽभूद् यत्, तन्मतिज्ञानतां ब्रजेत् ॥ ६१५ ॥॥ जन्मिनो यच्छ्रताऽज्ञानं, तच्छृतज्ञानतां भजेत् । विभङ्गज्ञानमवधिज्ञानभावं च गच्छति ॥ ६१६ ॥ 35
सर्वसावधयोगानां, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिव्रतमेदेन पञ्चधा ॥ ६१७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org