________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
प्रथमं पर्व अहिंसा-नृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ ६१८॥ न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । सानां स्थावराणां च, तदहिंसात्रतं मतम् ॥ ६१९ ॥ प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ ६२० ॥ अनादानमदत्तस्याऽस्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों, हरता त हता हि ते ॥ ६२१ ॥ दिव्यौदारिककामानां, कृताऽनुमतकारितैः । मनोवाकायतस्त्यागो, ब्रह्माऽष्टादशधोदितम् ॥ ६२२॥ सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः ॥ ६२३ ॥ सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥ ६२४ ॥ सम्यक्त्वमूलानि पश्चाऽणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ॥ ६२५ ॥
पङ्गुकुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां, हिंसां सङ्कल्पतस्त्यजेत् ॥ ६२६ ॥ 10 मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ ६२७ ॥
कन्यागोभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पश्चेति, स्थूलासत्यानि सन्त्यजेत् ॥ ६२८ ॥ दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् ॥ ६२९ ॥
पच्छेदं. वीक्ष्याऽब्रह्मफलं सधीः । भवेत खदारसन्तष्टोऽन्यदारान वा विवर्जयेत ॥६३०॥ असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात, परिग्रहनियत्रणम् ॥ ६३१ ॥ 15 दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति, प्रथमं तद् गुणव्रतम् ॥ ६३२ ॥
भोगोपभोगयोः सङ्ख्या, शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् , द्वैतीयीकं गुणव्रतम् ॥ ६३३ ॥ आतं रौद्रमपध्यानं, पापकर्मोपदेशिता । हिंसोपकारिदानं च, प्रमादाचरणं तथा ॥६३४ ॥ शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणवतम् ॥ ६३५॥
त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ ६३६ ॥ 20 दिग्व्रते परिमाणं यत्, तस्य सङ्केपणं पुनः । दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ ६३७॥
चतुष्पां चतुर्थादि, कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधवतम् ॥ ६३८ ॥ दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ।। ६३९ ॥ रत्नत्रयमिदं सम्यग्, यतिभिः श्रावकैरपि । उपासनीयं सततं, निर्वाणप्राप्तिहेतवे ॥ ६४०॥
आकर्ण्य देशनामेवमुत्थाय भरतात्मजः । ऋषभस्वामिनं नत्वार्षभसेनो व्यजिज्ञपत् ।। ६४१॥ खामिनिह भवारण्ये, कषायदवदारुणे । नव्याम्बुद इवाऽवर्षस्तत्त्वामृतमनुत्तरम् ॥ ६४२ ॥ तरण्ड इव मजद्भिः, प्रपेव च पिपासितैः । कृशानुरिव शीतात्तैस्तापात्तैरिव पादपः ॥ ६४३ ॥ ध्वान्तमग्नैर्दीप इव, निधियॊस्थ्यस्थितैरिव । विषादितैरिव सुधा, रोगितैरिव भेषजम् ॥ ६४४ ॥ विक्रान्तद्विषदाक्रान्तैरिव दुर्ग जगत्पते । भवभीतैरसि प्राप्तो, रक्ष रक्ष दयानिधे ! ॥६४५॥[त्रिभिर्विशेषकम्]
पितृभिर्धाभितपुत्रैरन्यैश्व बन्धुभिः । अनाप्तैरिव पर्याप्तं, भवभ्रमणहेतुभिः ॥ ६४६ ॥ 30 जगच्छरण्य ! शरणं, संसारार्णवतारण! । त्वामेवाऽऽश्रितवानस्मि, दीक्षां देहि प्रसीद मे ॥६४७॥ [युग्मम्]
उक्त्वेति भरतस्याऽन्यैरेकोनैः पञ्चभिः शतैः । पुत्राणां प्रावजत् पौत्रसप्तशत्या च सोऽन्वितः ॥ ६४८॥ भर्तुः केवलिमहिमां, क्रियमाणां सुरासुरैः । दृष्ट्वा मरीचिर्भरततनयो व्रतमग्रहीत् ॥ ६४९॥ विसृष्टा भरतेशेन, ब्रायपि व्रतमग्रहीत् । गुरूपदेशः साक्ष्येव, प्रायेण लघुकर्मणाम् ॥ ६५० ॥ विमुक्ता बाहुबलिना, जिघृक्षुः सुन्दरी व्रतम् । भरतेन निषिद्धा तु, श्राविका प्रथमाऽभवत् ॥ ६५१ ॥
प्राणापहरणम् । २ अर्थम्। ३ ब्रह्मचर्यम् । ४ मोहस्य। ५ गृहस्वानाम् । * पुत्रैः पौत्रसप्तशत्या, चाsधितो व्रतमाददे आ, सं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org