________________
७९
तृतीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् । भरतः स्वामिपादान्ते, श्रावकत्वमशिश्रियत् । न हि भोगफले कर्मण्यभुक्ते भवति व्रतम् ॥ ६५२ ॥ नरतिर्यक्सुरेष्वेके, तदानीं जगृहुव्रतम् । श्रावकवतमन्ये तु, सम्यक्त्वमपरे पुनः ॥ ६५३ ॥ ते च कच्छमहाकच्छवर्ज राजन्यतापसाः । आगत्य स्वामिनः पार्श्वे, दीक्षामाददिरे मुंदा ॥ ६५४ ॥ साधवः पुण्डरीकाद्याः,साव्यो ब्राह्मीपुरस्कृताः। श्रावका भरताद्यास्तु,श्राविकाः सुन्दरीमुखाः॥६५५॥ चतुर्विधस्य सङ्घस्य, व्यवस्थेयं तदाऽभवत् । अद्यापि वर्त्तते सेयं, धर्मस्य परमं गृहम् ॥ ६५६ ॥ तदानीं चतुरशीतेर्गणभृन्नामकर्मणाम् । वतिनामृषभसेनप्रभृतीनां सुमेधसाम् ॥ ६५७ ॥ उत्पादो विगमो ध्रौव्यमिति पुण्यां पदत्रयीम् । उद्दिदेश जगन्नाथः, सर्ववाङ्मयमातृकाम् ॥ ६५८ ॥ सचतुर्दशपूर्वाणि, द्वादशाङ्गानि ते क्रमात् । ततो विरचयामासुस्तत्रिपद्यनुसारतः ॥६५९ ॥ अथाऽऽदाय दिव्यचूर्णपूर्ण स्थालं पुरन्दरः । देवैर्वृतो देवदेवपादान्तं समुपास्थित ॥ ६६० ॥ अथोत्थाय गणभृतां, चूर्णक्षेपं यथाक्रमम् । कुर्वाणः सूत्रेणाऽर्थेन, तथा तदुभयेन च ॥ ६६१ ॥ द्रव्यैर्गुणैः पर्यायैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां, गणानुज्ञामपि स्वयम् ॥ ६६२ ॥ ततोऽमरा नरा नार्यो, दुन्दुभिध्यानपूर्वकम् । वासक्षेपं विदधिरे, तेषामुपरि सर्वतः ॥ ६६३ ॥ तस्थुर्गणधरास्नेऽपि, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तो, मेघाम्भ इव पादपाः॥ ६६४॥ मृगेन्द्रासनमारुह्य, पूर्ववत् पूर्वदिअखः । अनुशिष्टिमयीं स्वामी, विदधे देशनां पुनः ॥ ६६५ ॥ देशनोदामवेलायाः, स्वामिवारिधिजन्मनः । मर्यादायाः प्रतिरूपा, तदाऽपूर्यत पौरुषी ॥ ६६६ ॥ 15
अत्रान्तरे च कलमैरखण्डैर्निस्तुपोज्ज्वलैः । विनिर्मितश्चतुःप्रस्थीप्रमाणः स्थालसंस्थितः ॥ ६६७ ॥ दिविषन्निहितैर्गन्धैर्द्विगुणीकृतसौरभः । प्रधानपुरुषोत्क्षिप्तो, भरतेश्वरकारितः ॥ ६६८ ॥ देवदुन्दुभिनिर्घोषप्रतिघोषितदिअखः । अन्वीयमानः प्रोद्गीतमङ्गलैर्ललनाजनैः ॥ ६६९ ॥ पौरैः स्वामिप्रभावोत्थपुण्यराशिरिवाऽऽवृतः । पूर्वद्वारेण समवसरणे प्राविशद् बलिः ॥ ६७० ॥ प्रभुं प्रदक्षिणीकृत्य, सोऽक्षिप्यत बलिः पुरः । वप्तुं कल्याणसस्यानामिव बीजमनुत्तमम् ॥ ६७१ ॥ 20 अन्तरिक्षानिपततोऽन्तगलेऽपि समाददे । तस्याऽर्धममरैर्मेघपानीयमिव चातकैः ॥ ६७२ ॥ तस्य भूमिगतस्याऽधू, जग्राह भरतेश्वरः । शेषं तु गोत्रिण इव, विभज्य जगृहुर्जनाः ॥ ६७३ ॥ पूर्वोत्पन्नाः प्रणश्यन्ति, रोगाः सर्वे नवाः पुनः । षण्मासान् नैव जायन्ते, बलेस्तस्य प्रभावतः ॥ ६७४ ॥ ___ अथोत्थायोत्तरद्वारवर्मना निर्ययौ प्रभुः । अन्वीयमानो देवेन्द्रैः, पद्मखण्ड इवालिभिः ॥ ६७५ ॥ रत्नमयस्वर्णमयवप्रयोरन्तरस्थिते । व्यश्राम्यद् भगवान् देवच्छन्द ईशानदिस्थिते ॥ ६७६ ॥ 25 तदानीमृषभसेनो, गणभृन्मुखमण्डनम् । भगवत्पादपीठस्थो, विदधे धर्मदेशनाम् ॥ ६७७ ॥
खामिनः खेदविनोदः, शिष्याणां गुणदीपना । उभयतः प्रत्ययश्च, गणभृद्देशनागुणाः ॥ ६७८ ॥ तस्मिन् गणधरे धर्मदेशनाविरते सति । प्रणम्य स्वामिनं सर्वे, स्थानं निजनिजं ययुः ॥ ६७९ ॥ __ तीर्थे तत्र समुत्पन्नो, गोमुखो नाम गुंह्यकः। वराऽक्षमालाशालिन्यां, दोभ्यां दक्षिणपार्श्वतः ॥६८०॥ मातुलिङ्गपाशभृद्भ्यां, वामदोभ्या॑ च शोभितः। हेमवर्णो गजरथः, पार्श्वस्थोऽभूत् ततो विभोः॥६८१॥[युग्मम्] 30 नामतो प्रतिचक्रेति, हेमामा गरुडासना । वरप्रदेषुभृचक्रिपाशिभिर्दक्षिणैर्भुजैः ॥ ६८२ ॥ * तु खंता॥ तदा खंता ॥ यक्षकः सं .॥ मातुलिङ्गः "बीजोरु" इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org