Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 99
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं प्रथमं पर्व अहिंसा-नृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ ६१८॥ न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । सानां स्थावराणां च, तदहिंसात्रतं मतम् ॥ ६१९ ॥ प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ ६२० ॥ अनादानमदत्तस्याऽस्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों, हरता त हता हि ते ॥ ६२१ ॥ दिव्यौदारिककामानां, कृताऽनुमतकारितैः । मनोवाकायतस्त्यागो, ब्रह्माऽष्टादशधोदितम् ॥ ६२२॥ सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः ॥ ६२३ ॥ सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥ ६२४ ॥ सम्यक्त्वमूलानि पश्चाऽणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ॥ ६२५ ॥ पङ्गुकुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां, हिंसां सङ्कल्पतस्त्यजेत् ॥ ६२६ ॥ 10 मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ ६२७ ॥ कन्यागोभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पश्चेति, स्थूलासत्यानि सन्त्यजेत् ॥ ६२८ ॥ दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् ॥ ६२९ ॥ पच्छेदं. वीक्ष्याऽब्रह्मफलं सधीः । भवेत खदारसन्तष्टोऽन्यदारान वा विवर्जयेत ॥६३०॥ असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात, परिग्रहनियत्रणम् ॥ ६३१ ॥ 15 दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति, प्रथमं तद् गुणव्रतम् ॥ ६३२ ॥ भोगोपभोगयोः सङ्ख्या, शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् , द्वैतीयीकं गुणव्रतम् ॥ ६३३ ॥ आतं रौद्रमपध्यानं, पापकर्मोपदेशिता । हिंसोपकारिदानं च, प्रमादाचरणं तथा ॥६३४ ॥ शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणवतम् ॥ ६३५॥ त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ ६३६ ॥ 20 दिग्व्रते परिमाणं यत्, तस्य सङ्केपणं पुनः । दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ ६३७॥ चतुष्पां चतुर्थादि, कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधवतम् ॥ ६३८ ॥ दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ।। ६३९ ॥ रत्नत्रयमिदं सम्यग्, यतिभिः श्रावकैरपि । उपासनीयं सततं, निर्वाणप्राप्तिहेतवे ॥ ६४०॥ आकर्ण्य देशनामेवमुत्थाय भरतात्मजः । ऋषभस्वामिनं नत्वार्षभसेनो व्यजिज्ञपत् ।। ६४१॥ खामिनिह भवारण्ये, कषायदवदारुणे । नव्याम्बुद इवाऽवर्षस्तत्त्वामृतमनुत्तरम् ॥ ६४२ ॥ तरण्ड इव मजद्भिः, प्रपेव च पिपासितैः । कृशानुरिव शीतात्तैस्तापात्तैरिव पादपः ॥ ६४३ ॥ ध्वान्तमग्नैर्दीप इव, निधियॊस्थ्यस्थितैरिव । विषादितैरिव सुधा, रोगितैरिव भेषजम् ॥ ६४४ ॥ विक्रान्तद्विषदाक्रान्तैरिव दुर्ग जगत्पते । भवभीतैरसि प्राप्तो, रक्ष रक्ष दयानिधे ! ॥६४५॥[त्रिभिर्विशेषकम्] पितृभिर्धाभितपुत्रैरन्यैश्व बन्धुभिः । अनाप्तैरिव पर्याप्तं, भवभ्रमणहेतुभिः ॥ ६४६ ॥ 30 जगच्छरण्य ! शरणं, संसारार्णवतारण! । त्वामेवाऽऽश्रितवानस्मि, दीक्षां देहि प्रसीद मे ॥६४७॥ [युग्मम्] उक्त्वेति भरतस्याऽन्यैरेकोनैः पञ्चभिः शतैः । पुत्राणां प्रावजत् पौत्रसप्तशत्या च सोऽन्वितः ॥ ६४८॥ भर्तुः केवलिमहिमां, क्रियमाणां सुरासुरैः । दृष्ट्वा मरीचिर्भरततनयो व्रतमग्रहीत् ॥ ६४९॥ विसृष्टा भरतेशेन, ब्रायपि व्रतमग्रहीत् । गुरूपदेशः साक्ष्येव, प्रायेण लघुकर्मणाम् ॥ ६५० ॥ विमुक्ता बाहुबलिना, जिघृक्षुः सुन्दरी व्रतम् । भरतेन निषिद्धा तु, श्राविका प्रथमाऽभवत् ॥ ६५१ ॥ प्राणापहरणम् । २ अर्थम्। ३ ब्रह्मचर्यम् । ४ मोहस्य। ५ गृहस्वानाम् । * पुत्रैः पौत्रसप्तशत्या, चाsधितो व्रतमाददे आ, सं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254