Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व वयं हि वणिजस्तात !, कलाकौशलजीविनः । अनुद्भटाऽऽचारवेषाः, सन्तो गामहे न हि ॥ ३४ ॥ भवितव्यं यौवनेऽपि, भवद्भिर्गुढविक्रमैः । वणिजो लोकसामान्येऽप्यर्थे साशङ्कवृत्तयः ॥ ३५ ॥ सम्पदो विषयक्रीडा, दानं च च्छन्नमेव नः । अलं भवति शोभायै, शरीरमिव योषिताम् ॥ ३६ ॥ आत्मजातेरनुचितं, क्रियमाणं न शोभते । चरणे करभस्येव, बद्धं कनकनूपुरम् ॥ ३७॥ 5 ततो निजक्रमौचित्यव्यवहारपरायणैः । दातव्यः प्रहरी वत्स !, गुणानां सम्पदामिव ॥ ३८ ॥ त्याज्योऽसतां च संसर्गो, निसर्गानृजुचेतसाम् । सोऽलर्कविषवत् कालेनाऽपि यात्येव विक्रियाम् ॥ ३९ ॥ अयं चाऽशोकदत्तस्त्वां, मित्रं श्वित्रं तनूमिव । अवाप्तप्रसरो वत्स !, सर्वथा दूषयिष्यति ॥ ४० ॥ मनस्यन्यद् वचस्यन्यत् , क्रियायामन्यदेव हि । गणिकाया इवाऽमुष्याऽत्यन्तमायाजुषः सदा ॥४१॥ आदरादुपदिश्यैवं, श्रेष्ठिश्रेष्ठे स्थिते सति । इति सागरचन्द्रोऽपि, चिन्तयामास चेतसि ॥ ४२ ॥ 10 कन्याबन्दिव्यतिकरस्तातेन सकलोऽपि सः । विज्ञात इति मन्येऽहमुपदेशदिशाऽनया ॥ ४३ ॥ असावशोकदत्तश्च, तातस्याऽभान सङ्गतः । मन्दभाग्यतया पुंसां, गुरवः स्युरनीदृशाः ॥ ४४ ॥ भवत्वेवं तथाऽपीति, विमृश्य मनसि क्षणम् । ऊचे सागरचन्द्रोऽपि, Iश्रयाश्रितया गिरा ॥ ४५ ॥ यंदादिशति तातस्तत् , कर्तव्यं सूनुरस्मि ते । कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लङ्घयते ॥ ४६ ॥ किन्तु दैवादकाण्डेऽपि, कृत्यं तदुपतिष्ठते । नाऽऽलोचकालहरणं, सहते यन्मनागपि ॥ ४७ ॥ आलोचं कुर्वतोऽत्येति, कालः कार्यस्य कस्यचित् । पर्ववेलेव जिह्मस्य, पादशौचं वितन्वतः ॥४८॥ ईदृशेऽप्यागते काले, प्राप्तेऽपि प्राणसंशये । तदेवाऽहं करिष्यामि, तव लक्षाकरं न यत् ॥ ४९ ।। तातेनाऽशोकदत्तस्य, यच्च तादृगुदीरितम् । तद्दोषेण न दोष्यमि, न गुणी तद्गुणेन वा ॥ ५० ॥ यन्ममाऽशोकदत्तेन, मैत्री तत्रेति कारणम् । सहवासः सहपांशुक्रीडनं दर्शनं मुहुः ॥ ५१ ॥ समा जातिः समा विद्या, समं शीलं समं वयः । परोक्षेऽप्युपकारित्वं, सुखदुःखविभागिता ॥ ५२ ॥ 20 असिंश्च कैतवमहं, न पश्यामि मनागपि । मृषा तातस्य कोऽप्याख्यत. खलाः सर्वपाः खल ॥५३ अस्तु वा तादृशो मायाव्येष मे किं करिष्यति ? । एकत्र विनिवेशेऽपि, काचः काचो मणिमणिः॥५४॥ इत्युक्तः सूनुना श्रेष्ठी, तमचे बुद्धिमानसि । तथापि ह्यवधातव्यं, दुर्लक्षा हि पराशयाः॥५५॥ सोऽथ स्वसूनो वज्ञस्तदर्थं प्रियदर्शनाम् । शीलादिभिर्गुणैः पूर्णा, पूर्णभद्रादयाचत ॥५६॥ असावुपतिक्रीती, त्वत्सुतेन सुता मम । अग्रेऽपीति वदन् पूर्णभद्रोऽमन्यत तद्वचः ॥ ५७ ॥ 25 ततः सागरचन्द्रस्य, प्रियदर्शनया सह । विवाहोऽकारि पितृभिः, शुभे लग्ने शुभे दिने ॥ ५८॥ विचिन्तिताया दुन्दुभ्याः, पतनेनेव तौ ततः । मनीषितविवाहेन, मुमुदाते वधूवरौ ॥ ५९॥ समानमानसतया, तयोरेकात्मनोरिव । परस्परमवर्द्धिष्ट, प्रीतिः सारसयोरिव ॥ ६॥ रेजे सागरचन्द्रेण, सा चन्द्रेणेव चन्द्रिका । सहोदयवती सौम्यदर्शना प्रियदर्शना ॥ ६१ ॥ तयोः शीलभृतो रूपवतोराजवशालिनोः । अनुरूपोऽभवद् योगश्चिराद् घटयतो विधेः ॥६२॥ 30 अविसम्भो न जात्वासीदन्योऽन्यप्रत्ययात् तयोः । विपरीतं न शङ्कन्ते, कदापि सरलाशयाः ॥ ६३ ॥ अथ सागरचन्द्रस्य, बहिर्गतवतो गृहे । अशोकदत्तोऽभ्यायासीदूचे च प्रियदर्शनाम् ॥ ६४॥ श्रेष्ठिनो धनदत्तस्य, वध्वा मत्रयते रहः । नित्यं सागरचन्द्रो यत्, तत्र किं स्यात् प्रयोजनम् ? ॥६५॥ निसर्गऋज्वी साऽप्यूचे, जानात्येतत् सुहृत् तव । द्वितीयं हृदयं तस्य, त्वं वा जानासि सर्वदा ॥ ६६ ॥ उष्ट्रस्य । २ हडक्कयितश्वविषवत् । ३ श्वेतकुष्ठम् । ४ विनयाश्रितया। *अयं श्लोकः सं १ पुस्तके न दृश्यते ॥ ५विचारकालग्रतीक्षणम् । ६ गच्छति। ७दीर्घसूत्रिणः। ८ सर्वक्षोभकारकाः। ९ उपकारक्रीता । १. मनोऽभीष्टविवाहेन । अविनासः। १२ खभावसरला । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254