Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 90
________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । पुत्रवत् त्रातपूर्वी नः, पूर्वलक्षाण्यनेकशः । असंस्तव इवेदानी, प्रभुरस्मासु वर्तते ॥ ३१० ॥ श्रेयांसस्तानुवाचैवं, किमेवमभिधीयते ? । न ह्ययं पूर्ववत् स्वामी, परिग्रहपरो नृपः ।। ३११ ॥ इदानीं वर्तते भर्ता, भवावन्निवर्तितम् । कृतनिःशेषसावधव्यापारविरतियतिः ॥ ३१२॥ स्नानाङ्गरागनेपथ्यवस्त्राणि स्वीकरोति सः। यो भोगेच्छुः स्वामिनस्तु, तद्विरक्तस्य किं हि नः ? ॥ ३१३ ।। कन्यकाः स हि गृह्णाति, यः कामविवशो जनः। स्वामिनो जितकामस्य, कामिन्यः काममश्र्मवन ।।३१४।। 5 हस्त्यश्वादि स गृह्णाति, यो महीराज्यमिच्छति । भर्तुः संयमसाम्राज्यभाजस्तद्दग्धवस्त्रवत् ॥ ३१५ ॥ फलादिकं स गृह्णाति, सजीवं यो हि हिंसकः । स्वामी त्वखिलजन्तूनामसौं जीवाभयप्रदः ॥ ३१६ ॥ एषणीयं कल्पनीयं, प्रासुकं च जगत्पतिः । आदत्तेऽन्नादि तन्मुग्धा, भवन्तो न हि जानने ॥३१७ ॥ ऊचिरे युवराजं ते, स्वामिना ज्ञापितं पुरा । यत् किश्चिदपि शिल्पादि, तन्मात्रं जानने जनाः॥३१८॥ न ज्ञापितमिदं भर्चा, न जानीमस्ततो वयम् । त्वया पुनः कुतो ज्ञातमिति शंसितुमर्हसि ॥ ३१९ ॥ 10 ___ व्याजहार कुमारोऽपि, भगवदर्शनान्मम । जातिसरणमुत्पन्नं, धीरिव ग्रन्थदर्शनात् ॥ ३२० ॥ अमुना स्वामिना सार्द्धमष्टौ जन्मान्तराण्यहम् । भृत्यो ग्रामान्तराणीव, पर्याटं स्वर्गमय॑योः ॥ ३२१ ॥ इतो भवात् तृतीयस्मिन्नतिक्रान्तभवे प्रभोः। पिताऽभवद् वज्रसेनो, विदेहभुवि तीर्थकृत् ।। ३२२ ॥ तदन्तिके प्रवजितः, स्वामी पश्चादहं पुनः । तजन्मस्मरणादेतदज्ञायि सकलं मया ॥ ३२३ ॥ तथा मे तातपादानां, सुबुद्धिश्रेष्ठिनोऽपि च । त्रयाणामपि स्वमानां, प्रत्यक्षमधुना फलम् ॥ ३२४ ॥ 15 श्यामो मेरुर्मया दृष्टः, पयोभिः क्षालितश्च यत् । तपःक्षामः स हि स्वामीक्षुरसेः पारणादभात् ॥ ३२५ ॥ युध्यमानोऽरिभिर्यस्तु, राज्ञा दृष्टः प्रभुहि सः । मत्पारणकसानिध्यात्, पराजिग्ये परीपहान् ॥ ३२६ ॥ सुबुद्धिश्रेष्ठिना यञ्च, दृष्टमादित्यमण्डलात् । गोसहस्रं च्युतं न्यस्तं, मयाऽथाऽर्कोऽधिकं बभौ ॥ ३२७ ॥ आदित्यो भगवानेष, गोसहस्रं तु केवलम् । तद् भ्रष्टं पारणेनाऽद्य, मयाऽयोजि बभौ च सः॥ ३२८ ॥ एतच्छ्रुत्वा च ते सर्वे, श्रेयांसं साधु साध्विति । भाषमाणाः प्रमुदिताः, स्थानं निजनिजं ययुः ॥३२९॥ 20 कृतपारणकः स्वामी, श्रेयांससदनात् ततः । जगामाऽन्यत्र नैकत्र, तिष्ठेच्छमस्थतीर्थकृत् ॥ ३३० ॥ भगवत्पारणस्थानातिक्रम कोऽपि मा व्यधात । इति रत्नमयं तत्र, श्रेयांसः पीठमादधे ॥३३१॥ त्रिसन्ध्यमपि तद् रत्नपीठं भक्तिभरानतः । श्रेयांसः पूजयामास, साक्षात् पादाविव प्रभोः ॥ ३३२ ॥ किमेतदिति लोकेन, पृष्टः सोमप्रभात्मजः । आदिकृन्मण्डलमिदमिति तं शंसति स तत् ॥३३३ ॥ यत्र यत्र प्रभुर्भिक्षामग्रहीत् तत्र तत्र च । पीठं लोकोऽकृताऽऽदित्यपीठं तच्च क्रमादभूत् ॥ ३३४ ॥ 25 __ स्वामी सम्प्राप सायाहे, निकुञ्जमिव कुञ्जरः । बहलीमण्डले बाहुबलेस्तक्षशिलापुरीम् ॥ ३३५ ॥ तस्याश्च पहिरुद्याने, तस्थौ प्रतिमया प्रभुः । गत्वा च बाहुबलये, तदायुक्तैर्त्यवेद्यत ॥ ३३६ ॥ अथाऽऽदिक्षत् पुरारक्षं, मापतिस्तत्क्षणादपि । विचित्रं हट्टशोभादि, नगरे क्रियतामिति ॥ ३३७ ॥ पदे पदेऽभवद् रम्भास्तम्भतोरणमालिका । लम्बमानमहालुम्बिचुम्बिताध्वन्यमौलिका ॥ ३३८ ॥ मञ्चाः प्रतिपथं चासन् , रत्नभाजनभासुराः । विमानानीव भगवदर्शनायातनाकिनाम् ॥ ३३९ ॥ 30 अनिलान्दोलितोद्दामपताकामालिकाच्छलात् । पूँः सहस्रभुजीभूय, ननर्तेव मुदा तदा ॥ ३४० ॥ नव्यकुङ्कुमपानीयच्छटाभिरभितोऽप्यभूत् । सद्यो रचितमङ्गल्याङ्गरागेव वसुन्धरा ॥ ३४१॥ भगवदर्शनोत्कण्ठारजनीजानिसङ्गमात् । पुरं तदानीमुनिद्रमभूत् कुमुदषण्डवत् ॥ ३४२ ॥ प्रातः खं पावयिष्यामि, लोकं च स्वामिदर्शनात् । इतीच्छतो बाहुबले, साऽभून्मासोपमा निशा ॥३४३॥ तस्यामीपद्विभातायां, विभावर्या जगद्विभुः । प्रतिमां पारयित्वाऽगात् , क्वचिदन्यत्र वायुवत् ॥ ३४४ ॥ 35 रक्षितपूर्वी । २ अपरिचित इव । ३ संसाररूपजलावर्तात् । ४ पाषाणवत् । ५बहलीदेशे । * भूः सह सं॥ चन्द्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254