Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ द्वितीयः सर्गः ] त्रिपष्टिशलाकापुरुषचरितम् । ३७ 1 15 अथाऽघोलोकवासिन्यः सद्यः प्रचलितासनाः । दिकुमार्यः समाजग्मुरष्टौ तत्सूतिवेश्मनि ॥ २७३ ॥ भोगङ्करा भोगवती, सुभोगा भोगमालिनी । तोयधारा विचित्रा च, पुष्पमाला त्वनिन्दिता ॥ तत्रादिमं तीर्थकर, तीर्थकृन्मातरं च ताम् । तात्रिः प्रदक्षिणीकृत्य, वन्दित्वा चैवमृचिरे ।। २७५ ।। नमस्तुभ्यं जगन्मातर्जगद्दीपप्रदायिके ! | अष्टौ वयमधोलोकवासिन्यो दिक्कुमारिकाः ।। २७६ ।। अवधिज्ञानतो ज्ञात्वा तीर्थजन्म पावनम् । तन्महिम्नः करणार्थं, तत्प्रभावादिहागताः ।। २७७ ।। 5 तन्न भेतव्यमित्युक्त्वा, देशे पूर्वोत्तरे स्थिताः । चक्रुः स्तम्भसहस्राङ्कं प्राङ्मुखं सूतिकागृहम् || २७८ ।। ताथ संवर्त्तवातेन, परितः सूतिकागृहम् | आयोजनमपाहार्षुः, शर्कराकण्टकादिकम् ॥ २७९ ॥ संवर्त्तवातं संहृत्य, भगवन्तं प्रणम्य च । तदासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ॥ २८० ॥ तथैवाऽऽसनकम्पेन, ज्ञात्वा मेरु गिरिस्थिताः । ऊर्द्धलोकनिवासिन्योऽप्यष्टेयुर्दिकुमारिकाः || २८१ ॥ मेघङ्करा मेघवती, सुमेधा मेघमालिनी । सुवत्सा वत्समित्रा च वारिषेणा बलाहिका ।। २८२ ।। 10 जिनं जिनजननीं च, नत्वा नुत्वा तथैव ताः । नभस्यवन्नभस्यभ्रपटलं द्राग् विचक्रिरे ॥ २८३ ॥ ताभिः सुगन्धितोयेनाऽऽयोजनं वेश्मपार्श्वतः । समन्ततो रजोऽशामि, कौमुद्येव तमस्ततिः ॥ २८४ ॥ वसुन्धरां वितन्वानां नानालेख्यमयीमिव । जानुदनीं पञ्चवर्णैः पुष्पैर्वृष्टिं वितेनिरे ॥ २८५ ॥ तथैव तीर्थनाथस्य, गायन्त्यो निर्मलान् गुणान् । हर्षप्रकर्षशालिन्यः, स्थाने तस्थुर्यथोचिते ॥ २८६ ॥ दिकुमार्योsष्ट पौरस्त्यरुचकाद्रिस्थिता अपि । विमानैर्मनसा सार्द्धं, स्पर्द्धमानैरिवाऽऽययुः ॥ २८७ ॥ ताश्च नन्दोत्तरानन्दे, आनन्दानन्दिवर्द्धने । विजया वैजयन्ती च जयन्ती चाऽपराजिता ॥ स्वामिनं मरुदेवां च, नत्वाऽऽख्याय च पूर्ववत् । गायन्त्यो मङ्गलान्यस्थुस्ताः प्रादर्पणपाणयः ॥ २८९ ॥ अपाच्य रुचकाद्रिस्थास्तावन्त्यो दिकुमारिकाः । तत्राऽययुः प्रमोदेन, प्रतोदेनेव नोदिताः ।। २९० ॥ समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ।। २९१ ॥ जिननार्थं तदम्बां च, नत्वा प्राग्वन्निगद्य च । भृङ्गारपाणयस्तस्थुर्गायन्त्यो दक्षिणेन ताः ।। २९२ ।। serveenशैलस्था, अप्यष्टौ दिकुमारिकाः । आययुस्त्वरयाऽन्योऽन्यमित्र भक्त्या जिगीषवः ।। २९३ ।। इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः ॥ २९४ ॥ नत्वा जिनं जिनाम्बां च, विज्ञपय्य च पूर्ववत् । तस्थुर्व्यजनहस्तास्ता, गायन्त्यः पश्चिमेन तु ।। २९५ ।। उदचकतोऽप्येयुर्दिकुमार्योऽष्ट वेगतः । वातैरिव रथीभूतैरमरैराभियोगिकैः ॥ २९६ ॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव, श्री हीरित्यभिधानतः ॥ २९७ ।। 25 नत्वा जिनं तदम्बां च कृत्यं चाऽऽख्याय पूर्ववत् । गायन्त्य उत्तरेणाऽस्थुस्तास्तु चामरपाणयः ॥ २९८ ॥ युर्विदिग्चकाद्रेश्चतस्रो दिक्कुमारिकाः । चित्रा चित्रकनका सतेरा सौत्रामणी तथा ।। २९९ ॥ नत्वा जिनं जिनाम्बां च, विज्ञपय्य तथैव हि । गायन्त्योऽस्थुर्दीपहस्ता, ईशानादिविदिक्षु ताः || ३०० || रुचकद्वीपतोऽप्येयुश्चतस्रो दिकुमारिकाः । रूपा रूपाशिका चाऽपि, सुरूपा रूपकावती ॥ ३०१ ॥ चतुरङ्गुलवता, नाभिनालं जगत्पतेः । न्यकृन्तन् विदरं चख्नुस्तं च तत्र निचिक्षिपुः ॥ ३०२ ॥ विद॑रं पूरयामासुर्वत्रै रत्नैश्च मञ्जु ताः । दुर्वया पीठिकाबन्धं, तस्योपरि च चक्रिरे ॥ ३०३ ॥ जिनजन्मगृहात् पूर्वदक्षिणोत्तरदिक्षु च । विचक्रुस्त्रीणि कदलीगृहाणि श्रीगृहाणि ताः ॥ ३०४ ॥ प्रत्येकमेषां मध्ये च, ताः सिंहासनभूषितम् । विचक्रिरे चतुःशालं, विशालं स्वविमानवत् ।। ३०५ ॥ 20 1 30 * अथ मेरुरुचकाधोलोकस्थाश्चलि° खंता ॥ + सुवत्सा वत्समित्रा च पु° खंता, आ ॥ । देशेऽथोत्तरपश्चिमे स्वता ॥ ६ तोयधारा विचित्रा च वारि° संता, आ ॥ १ भाद्रपदभासवत् । २ जानुप्रमाणाम्। १ "युः प्रयत्वेन, प्रमोदेनैव चालिताः सं १ ॥ ॐ विवरं सं १, खं ॥ || विवरं सं १, खं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254