Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ ४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व चत्वारिंशत्सहस्राणां, विमानानां सुरैर्वृतः । प्रीतिगमविमानेन, शुक्रोऽगान्मेरुमूर्द्धनि ॥ ४३९ ॥ संहस्रारः सह सुरैः, षड्विमानसहस्रजैः । मनोरमविमानेनाऽऽययावुपजिनेश्वरम् ॥ ४४० ॥ विमलेन विमानेनाऽऽनत-प्राणतवासवः । चतुर्विमानशतजैः, सुरैः सह समाययौ ॥ ४४१ ॥ आरणाच्युतराजोऽपि, विमानत्रिशतीसुरैः । तत्राऽऽगात् सर्वतोभद्रविमानेनाऽतिरंहसा ॥ ४४२ ॥ रत्नप्रभाया मेदिन्या, बाहल्यान्तर्निवासिनाम् । भवनव्यन्तरेन्द्राणामासनान्यचलंस्तदा ॥ ४४३ ॥ पुर्या चमरचञ्चायां, सुधर्मायां च पर्षदि । सिंहासने च चमरे, निषण्णश्चमरासुरः ॥ ४४४ ॥ जिनजन्मावर्ज्ञात्वा, लोकज्ञप्त्यै द्रुमेण च । पत्यनीकाधिपेनौघस्वरां घण्टामवादयत् ॥४४५॥ चतुःषष्ट्या सहस्त्रैः स, सामानिकदिवौकसाम् । त्रयस्त्रिंशित्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ।। ४४६ ॥ पञ्चभिश्चाग्र्यदेवीभिः, पर्षद्भिस्तिसृभिस्तथा । सप्तभिश्च महानीकैस्तदधीशैश्च सप्तभिः ॥ ४४७ ॥ 10 प्रतिदिश चतुःषष्ट्या, सहस्रैरात्मरक्षिणाम् । वृतोऽपरैरप्यसुरकुमारैः परमर्द्धिभिः॥४४८ ॥ पञ्चयोजनशत्युच्चं, महाध्वजविभूषितम् । पञ्चाशतं सहस्राणि, योजनानि तु विस्तृतम् ॥ ४४९ ॥ विमानमाभियोग्येन, सद्यो देवेन निर्मितम् । अधिरुह्याऽचलत् स्वामिजन्मोत्सवविधित्सया ॥ ४५० ॥ सङ्क्षिप्य शक्रवन्मार्गे, विमानं चमरासुरः। जगाम मेरुशिखरं, स्वाम्यागमपवित्रितम् ॥ ४५१ ॥ बलिश्च बलिचश्चाया, नगर्या असुरेश्वरः । घण्टां घोषयता तारं, प्राग महौघस्वराभिधाम् ॥४५२॥ 15 महाद्रुमेण सेनान्या, सामानिकदिवाकसाम् । षष्ट्या सहस्रैराहूतैरारक्षश्च चतुर्गुणैः ॥ ४५३ ॥ त्रायस्त्रिंशादिभिश्चापि, वृतश्चमरवत् सुरैः । जगामामन्दमानन्दमन्दिरं मन्दराचलम् ॥ ४५४ ॥ [त्रिभिर्विशेषकम् ] नागेन्द्रो धरणो मेघस्वराघण्टाप्रताडनात् । पत्तिसेनाधिपतिना, भद्रसेनेन बोधितैः ॥ ४५५ ॥ पदसामानिकसहस्यात्मरक्षैस्तच्चतुर्गुणैः । पड्भिश्च पट्टदेवीभिर्वृतोऽन्यैरपि पन्नगैः ॥ ४५६ ॥ 20 योजनानां सहस्राणि, पञ्चविंशानि विस्तृतम् । सार्द्धद्वियोजनशतीतुङ्गेन्द्रध्वजभूषितम् ॥ ४५७ ॥ विमानरत्नमारुह्य, भगवदर्शनोत्सुकः । मन्दराचलमूर्द्धानमाससाद क्षणादपि ॥ ४५८ ॥ - [चतुर्भिः कलापकम् ] भूतानन्दोऽपि नागेन्द्रो, घण्टां मेघखरांप्रता । पत्यनीकेशदक्षेणाहूतैः सामानिकादिभिः ॥ ४५९ ॥ वृतो विमानमारुह्याभियोगिकसुरोद्भवम् । जगाम त्रिजगन्नाथसनाथं मन्दराचलम् ॥ ४६० [ युग्मम् ] 25 इन्द्रौ विद्युत्कुमाराणां, हरिहरिसहस्तथा । सुपर्णानां वेणुदेवो, वेणुदारी च वासवौ ॥ ४६१ ॥ इन्द्रावग्निकुमाराणामग्निशिखाग्निमाणवी । समीरणकुमाराणां, वेलम्बाख्यभञ्जनौ ॥४६२॥ स्तनितानां सुघोषश्च, महाघोषश्च नायकौ । तथोदधिकुमाराणां, जैलकान्तजलप्रभो ॥४६३॥ पूर्णो विशिष्टच द्वीपकुमाराणां पुरन्दरौ । तथैव दिकुमाराणाममितामितवाहनौ ॥ ४६४ ।। व्यन्तरेषु कालमहाकालौ पिशाचवासवौ । सुरूपः प्रतिरूपश्च, तथा भूतपुरन्दरौ ॥ ४६५ ॥ यक्षराजौ पूर्णभद्रो, माणिभद्रश्च नामतः । इन्द्रौ भीममहाभीमनामानौ रक्षसां पुनः ॥ ४६६ ॥ किन्नरः किम्पुरुषश्च, किन्नराणामधीश्वरौ । तथा सत्पुरुषमहापुरुषो किम्पुरुषपौ ॥ ४६७ ॥ अतिकायमहाकायौ, महोरगपुरन्दरौ । गीतरतिस्तयंशा, गन्धर्वाणां तु वासवौ ॥ ४६८ ॥ तथैवाऽप्रज्ञप्तिपश्चप्रज्ञत्यादीनां षोडश । व्यन्तराष्टनिकायानां, वज्रिणः समुपाययुः ॥ ४६९ ॥ तत्राऽप्रज्ञप्तीनामिन्द्रौ, सन्निहितः सैंमानकः। धाता विधाता च पञ्चप्रज्ञप्तीनां त्वधीश्वरौ ॥४७०॥ * त्रयस्त्रिंशत्राय आ, त्रयस्त्रिंशः पारिषद्यैश्चतु सं १॥ + न्याहूतैः सामानिकैः सुरैः आ॥ हस्तेभ्योऽङ्ग रक्षकैश्च सं १ आ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254