Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 36
________________ प्रथमः सर्गः] त्रिषष्ट्रिशलाकापुरुपचरितम् । यद्विज्ञप्तमकाण्डे तु, श्रूयतां तत्र कारणम् । यदद्य नन्दनेऽद्राक्षं, चारणश्रमणावहम् ॥ ४४३ ॥ जगत्प्रकाशजनकौ, महामोहतमच्छिदौ । एकत्र मिलितौ साक्षात् , सूर्याचन्द्रमसाविव ॥ ४४४ ॥ कुर्वन्तौ देशनां तत्र, ज्ञानातिशयशालिनौ । तौ मया समये पृष्टौ, प्रमाणं भवदायुषः ॥ ४४५ ॥ ताभ्यां तु भवतो मासमात्रमायुर्निवेदितम् । अतस्त्वां त्वरयाम्यद्य, धमोयैव महामते!॥४४६ ॥ महाबलोऽथाऽभिदधे, स्वयम्बुद्ध ! धियांनिधे ! । त्वमेवैकोऽसि मे बन्धुर्यन्मत्कार्याय ताम्यसि ॥४४७॥ 5 आक्रम्यमाणं विषयैर्निद्रालु मोहनिद्रया । मामजागरयः साधु, शाधि किं साधयाम्यतः ? ॥ ४४८ ॥ आयुष्यल्पेऽधुना धर्मः, साधनीयः कियान मया ? । कीदृशं कूपखननं, सद्यो लग्ने प्रदीपने ॥ ४४९ ॥ स्वयम्बुद्धोऽप्युवाचैवं, मा विपीद दृढीभव । परलोकैकसुहृदं, यतिधर्म समाश्रय ॥ ४५०॥ अप्येकं दिवसं जीवः, परिव्रज्यामुपेयिवान् । अपवर्गमपि प्रामोत्येव स्वर्गस्य का कथा ? ॥ ४५१ ॥ आमेत्युदित्वा स्वसुतं, स्खे पदे प्रत्यतिष्ठिपत् । महाबलस्तदाचार्यः, प्रासादे प्रतिमाभिव ॥ ४५२ ॥ 10 दीनाऽनाथजनेभ्योऽथ, दयादानमदत्त सः । तथा यथा न कोऽप्यासीद्, याज्जादीनो जनः पुनः॥४५३॥ विचित्रवस्त्रमाणिक्यसुवर्णकुसुमादिभिः । स चक्रेऽष्टाह्निका सर्वचैत्येष्विन्द्र इवाऽपरः ॥ ४५४॥ ततश्च क्षमयित्वा स्वजनं परिजनं तथा । दीक्षां मुनीन्द्रपादान्तेऽग्रहीन्मोक्षश्रियः सखीम् ॥ ४५५ ॥ सर्वसावंद्ययोगानां, विरत्या सममेव सः । चक्रे चतुर्विधाहारप्रत्याख्यानं महामनाः ॥ ४५६ ॥ असौ समाधिपीयूषहदमग्नो निरन्तरम् । अम्भोजिनीखण्ड इव, न हि मम्लो मनागपि ॥ ४५७ ॥ 15 भुञ्जान इव भोज्यानि, पेयान्यपि पिबन्निव । सोऽक्षीणकान्तिरभवन्महासत्त्वशिरोमणिः ॥ ४५८ ॥ समाहितः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । द्वाविंशतिदिनान् कृत्वाऽनशनं स व्यपद्यत ॥ ४५९ ॥ स स्वयं सम्भृतैः पुण्यैर्दिव्यैरिव तुरङ्गमैः । ऐशानकल्पं तत्कालमाससाद दुरासदम् ॥ ४६० ॥ विमाने श्रीप्रभेऽथोपपादे शयनसम्पुटे । विद्युत्पुञ्ज इवाऽम्भोदगर्भे समुदपादि सः ॥ ४६१ ॥ दिव्याकृतिः सुसंस्थानः, सप्तधातूज्झिताङ्गकः । शिरीषसुकुमाराङ्गः, कान्तिकान्तदिगन्तरः ॥ ४६२ ॥ 20 वज्रकायो महोत्साहः, पुण्यलक्षणलक्षितः । कामरूपोऽवधिज्ञानी, सर्वविज्ञानपारगः ॥ ४६३॥ अणिमादिगुणोपेतो, निर्दोषोऽचिन्त्यवैभवः । ललिताङ्ग इति ख्यातः, स यथार्थाभिधोऽभवत् ॥४६४॥ पादयो रत्नकटके, कटिसूत्रं कटीतटे । हस्तयोः कङ्कणद्वन्द्वं, भुजयोरङ्गदद्वयम् ॥ ४६५॥ वक्षःस्थले हारयष्टिः, कण्ठे ग्रैवेयकं तथा । कुण्डले कर्णलतयोः, स्रकिरीटौ च मूर्धनि ॥ ४६६ ॥ इत्यादिभूषणग्रामो, दिव्यानि वसनानि च । सर्वाङ्गभूषणं तस्य, यौवनं च सहाऽभवत् ॥ ४६७ ॥ [त्रिभिर्विशेषकम् ] ननाद नादयन्त्राशाः, प्रतिनादेन दुन्दुभिः । पेठुर्जय जगन्नन्देत्यादि मङ्गलपाठकाः ॥ ४६८ ॥ गीतवादित्रनिर्घोषवन्दिकोलाहलाकुलम् । तद्विमानं जगर्जेव, नाथागेमभुवा मुदा ॥ ४६९ ॥ सोऽथ सुप्तोत्थित इव, पश्यन्नेवं व्यतर्कयत् । किमिन्द्रजालं ? किं स्वमः ?, कि माया? किमिवेदृशम् ? ॥४७०॥ किमेतद् गीतनृत्तादि, मामुद्दिश्य प्रवर्तते ? । अयं लोको विनीतः किं, मह्यं नाथाय तिष्ठते ? ॥ ४७१ ॥ 30 इदं श्रीमदिदं रम्यमिदं सेव्यमिदं प्रियम् । इदमानन्दसदनं, सदः किमिदमासदम् ॥ ४७२ ॥ स्फूर्जतिर्कसम्पर्क, तमकर्कशया गिरा । इति विज्ञपयामास, प्रतीहारः कृताञ्जलिः ॥ ४७३ ॥ अद्य नाथ ! वयं धन्याः, सनाथाः स्वामिना त्वया । कुरु प्रसादं नमेषु, पीयूषसदृशा दृशा ॥ ४७४॥ शिक्षय । २ अग्नौ। * दाभिशः सं ॥ चक्रे सर्वचैत्येषु, पूजां शक्र इवापरः आ ॥ ३ सर्वसदोष'योगानाम् । आत्माराममनाः प्राप, मासान्ते सोऽथ पश्चताम् आ॥ ५ प्रीवाभरणम् । ५ स्वामिसमागमजनितया । ६ स्फुरद्विकल्पसम्पर्कम् । ७ कोमलया। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254