Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 35
________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं नृपतिः स तु कौलोऽभून्महारम्भपरिग्रहः । धुर्योऽनार्येषु कार्येषु, निर्दयश्च कृतान्तवत् ॥ दुराचारोऽपि रौद्रोऽपि स राज्यं बुभुजे चिरम् । पूर्वोपार्जित पुण्यानां, फलमप्रतिघं खलु ॥ तस्यावसानसमये, जज्ञे धातुविपर्ययः । आसन्ननरकक्लेशवर्णिकामात्रसन्निभः || ४१२ ॥ आसीत् कण्टकशय्येव, तूलशय्याऽस्य दुःखदा । निम्बवद् विरसान्यासन्, भोज्यानि सुरसान्यपि ॥ ४१३ || 5 चन्दनागरुकर्पूरकस्तूर्यः पूर्तयोऽभवन् । शत्रुवत् पुत्रमित्राद्या, शोरुद्वेगहेतवः ॥ ४१४ ॥ कर्णक्लेशाय गीतानि, बभूवुः क्रोष्टुनादवत् । पुण्यच्छेदेऽथवा सर्व, प्रयाति विपरीतताम् ॥ ४१५ ॥ सुखेतरैस्तं विषयोपचारैरतिदेः क्षणम् । कुरुमतीहरिचन्द्रौ, प्रच्छन्नं प्रत्यजागृताम् ॥ ४१६ ॥ चुम्ब्यमान इवाङ्गारैः, प्रत्यङ्गं दाहविह्वलः । रौद्रध्यानपरः प्रापदवसानं स भूपतिः ॥ ४१७ ॥ तस्यौर्ध्वदेहिकं कृत्वा, हरिचन्द्रस्तदात्मजः । अशिषद् विधिवद् राज्यं, सदाचारपंथाध्वगः ॥ ४१८ ॥ सोsavers फलं दृष्ट्वा तन्मरणं पितुः । धर्ममेव पुमर्थेषु तुष्टावार्कं ग्रहेष्विव ॥ ४१९ ॥ सुबुद्धिं बालसुहृदं, श्रावकं सोऽन्यदाऽऽदिशत् । धर्मविद्योऽन्वहं धर्मः श्रुत्वा शंस्यस्त्वया मम ॥ ४२० ॥ सुबुद्धिर्विधे नित्यं, तत्तथाऽत्यन्ततत्परः । अनुकूलनिदेशो हि, सतामुत्साहकारणम् ।। ४२१ ॥ प्रत्यहं हरिचन्द्रोऽपि धर्मं तत्कथितं भृशम् । श्रद्दधे पापभीतः सन, रोगभीत इवौषधम् ॥ ४२२ ॥ अन्यदा बहिरुद्याने, शीलन्धर महामुनेः । उत्पन्ने केवलज्ञानेऽभीयुर्देवास्तमर्चितुम् ॥ ४२३ || सुबुद्धिनैवं कथिते, श्रद्धोलिखितमानसः । स राजा तुरगारूढस्तं मुनीन्द्रमुपाययौ ।। ४२४ ॥ नमस्कृत्योपविष्टे च, तस्मिन् राज्ञि महामुनिः । विदधे कुमतध्वान्तकौमुदीं धर्मदेशनाम् ।। ४२५ ।। देशनान्ते स भूपालस्तं पप्रच्छ कृताञ्जलिः । स्वामिन् ! मम पिता मृत्वा, कां गतिं प्रत्यपद्यत ? ।। ४२६ ।। उवाच मोऽथ भगवान्, महाराज ! पिता तव । सप्तमं नरकं प्राप, स्थानं नान्यत्र तादृशाम् ।। ४२७ ॥ तदाकर्ण्य समुद्भूतसंवेगः स महीपतिः । वन्दित्वा मुनिमुत्थाय ययाँ निजनिकेतने ॥ ४२८ ॥ 20 राज्यं सूनोः सोऽर्पयित्वा सुबुद्धिमिदमभ्यधात् । प्रवजिष्याम्यहं धर्मं, मयीवाऽस्मिन् सदा दिशेः ॥४२९ ॥ सोsप्यूचे प्रत्रजिष्यामि, भवन्तमनु भूपते ! । त्वत्सुते मत्सुतो धर्मं, वक्ष्यत्यहमिव त्वयि ॥ ४३० ॥ कर्माद्रिभेदकुलिशं व्रतं तौ राजमत्रिणौ । आददाते सुचिरं च, पालयित्वेयतुः शिवम् ॥ ४३१ ॥ युष्मद्वंशेऽपरश्चासीद्, दण्डको नाम पार्थिवः । प्रचण्डशासनो दण्डधरः साक्षादिवाऽरिषु ॥ ४३२ ॥ बभूव तनयस्तस्य, मणिमालीति विश्रुतः । अंशुमालीव तेजोभिरभिव्याप्तदिगन्तरः ॥ ४३३ ॥ पुत्रमित्रकलत्रेषु, रत्नस्वर्णधनेषु च । प्राणेभ्योऽप्यत्यभीष्टेषु मूर्च्छावान् दण्डकोऽभवत् ॥ ४३४ ॥ आर्त्तध्यानपरः कालाद्, दण्डकः प्राप पञ्चताम् । भाण्डागारे निजे सोऽजगरोऽजायत दुर्गरः || ४३५ || तत्रागारे प्रविवेश, यो यस्तं तं स जयसे । दारुणात्मा सर्वभक्षी, हुताशन इवोद्यतः ॥ ४३६ || अन्यदा ददृशे तेन, मणिमाली गृहं विशन् । प्राग्जन्मस्मरणाच् चात्मसूनुरित्युपलक्षितः || ४३७ ॥ प्रशान्तां दर्शयन्मूर्ति, सस्नेहो मूर्तिमानिव । प्राग्जन्मबन्धुर्नः कोऽपीत्यज्ञायि मणिमालिना ॥ ४३८ ॥ 30 मुनीनां ज्ञानिनां पार्श्वाज्ज्ञात्वा तं पितरं निजम् । उपविश्य पुरस्तस्य, जैनं धर्म शशंस सः ॥ ४३९ ॥ सोऽवबुध्यार्हतं धर्म, संन्यासं प्रत्यपद्यत । शुभध्यानपरो मृत्वा देवभूयमियाय च ॥ ४४० ॥ पुत्रप्रेम्णा दिवोऽभ्येत्य स हारं मणिमालिने । दिव्यमुक्तामयमदात् सोऽयमद्यापि ते हृदि ॥ ४४१ ॥ हरिचन्द्रान्वयेऽभ्रस्त्वं, सुबुद्धेरन्वये त्वहम् । क्रमागताप्तभावेन, ततो धर्मे प्रवर्त्यसे ॥ ४४२ ॥ 10 15 25 १४ | प्रथमं पर्व Jain Education International For Private & Personal Use Only ४१० ॥ १ शाक्तः । * प्रतिमं ख खं, सं २ ॥ २ दुर्गन्धमय्यः । । "रिश्चन्द्रौ सं १, २ ॥ °रिश्चन्द्र सं १, २ ॥ ६ पथानुगः सं २ ॥ || 'रिश्चन्द्रों सं १, २ ॥ ३ कुमतान्धकारचन्द्रिकाम् ४ सम्प्राप्तवैराग्यः । ५ कर्मरूपपर्वतविदारणे वज्रम् । ६ त्यागम् । ७ देवत्वम् । ४११ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254