Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ યશવંત વાકણકર
दृष्टं वासिष्ठं साम । कम्बलेन परिवृतः । काम्बलो रथः । शरावे उद्धृतः शाराव ओदनः । भ्राष्ट्र संस्कृता भ्राष्टा भक्ष्याः । काकानां समूहः काकम् । गाभिणं जनता धूम्या । पितृव्यादयो निपात्याः । पितुीता पितृव्यः । मातुः मातुलः । पितुर्मातुश्च पिता पितामहः मातामहः । व्याकरणमधीते वैयाकरणः । नैयायिकः । मीमांसकः । शिवीनां निवासः शेवः । उदम्बराः सन्त्यस्मिन् देशे औदुम्बराः। वेतस्वान्, नड्वान् । सायं भवे सायन्तनम् । स्त्रध्ने जातः स्रौनः । अश्मनो विकार आश्मनः । दर्दुरशब्दं करोति दार्दुरिकः । धर्म चरति धार्मिकः । धनुः प्रहरणमस्य धानुष्कः । याष्टीकः। अपूपा भक्षणमस्य आपूपिकः । नावा तार्य नाव्यम् । धर्मेण प्राप्यं धर्म्यम् । कर्मणि साधुः कर्मण्यः । आत्मने हितम् आत्मनीनम् । द्वयोः संख्यापूरणः द्वितीयः । चतुर्थः । पञ्चमः । एकादशः । अधीतमनेन अधीती। गावोऽस्थात्र वा सन्ति गोमान् । शुक्लो वर्णोऽस्यास्ति शुक्ल: पटः । मेधावान् । मेधावी । लोमशः । लोमवान् । पामनः । पिच्छिलः । व्रीहिकः । सम्वी । प्रकृष्टरुञ्चरुन्चेस्तमः । अद्रव्यप्रकर्षे उच्चस्तमाम् । आतेशयेन लघुः लघीयान् । लघिष्टः । लघुतरः । लघुतमः । बह्वोर्भावो भूमा लघिमा इत्यादि यथालक्ष्यं तद्धिताः । अभूततद्भावे कृभ्वस्तियोगे च्विः । अकृष्णं कृष्णं करोति कुष्णीकरोति । ब्रह्मीभवति । गङ्गी स्यात् । डाच् । डाचि द्वित्वम् । पटत्-पटत् करोति पटपटाकरोति । इति तद्धिताः॥
॥ इति सुबोधकुमुदाकरे व्याकरणप्रकरणम् ॥
एवं पदबोधे व्याकरणात सिद्धे पदार्थज्ञानाय काणादशाखशार: सगृह्यते ।
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः। तत्र द्रव्याणि प्र(पृथिव्यप्तेजोवाखौकाशकालदिगात्ममनांसि नवैव । रूपरसगन्धस्पर्शसंख्यापरिमाणप(पृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्ववत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विशतिर्गुणाः ॥ उत्क्षेपणापक्षेपणाकुञ्चनपसरणगमनानि पञ्च कर्माणि । परमपरं चेति द्विविध सामान्यम् । नित्यद्रव्यवृत्तयो विशेपास्त्वनन्ता एव । समवायस्त्वेक एव । अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोsयोन्याभावश्च ॥ तत्र गन्धवती पृथ्वी। गन्धवत्त्वं लक्षणम् । पृथ्वी लक्ष्या। पृथ्वीत्वं लक्ष्यतावच्छेदकम् । असाधारणधर्मो लक्षणम् । यद्धर्मावच्छिन्न लक्ष्यं स धर्मों लक्ष्यतावच्छेदकः ॥ शीतस्पर्शवत्य आपः ।। उष्णस्पर्शवत्तेजः ॥ रूपरहितस्पर्शवान् वायुः। रूपर हितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् । सति सप्तम्या विशिष्टार्थकतया रूपरहितत्व-विशिष्ट-स्पशवत्वं बोध्यम् । विशेषणानुपादाने स्पर्शवत्वमात्रे लक्षणे कृते थिव्यादित्रिकेऽतिव्याप्तिः । तद्वारणाय विशेषणोपादानम् । तावन्मात्रे कृते आकाशादावतिव्याप्तिः । तत्रापि रूपरहितत्वस्य सत्त्वात् । अत उक्तं स्पर्शेति । अलक्ष्ये लक्षणसत्वमतिव्याप्तिः । यथा--गोः वृङ्गित्वं लक्षणं कृतं चेत् लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिः। तत्रापि शृतित्वस्य सत्वात् । लक्ष्येकशावृत्तित्वमव्याप्तिः । यथा गोर्नीलरूपत्वं लक्षणं कृतं चेत् श्वेतगवि अव्याप्तिः। असम्भवो नाम कुत्रापि क्षणासत्त्वम् । यथा गोरेकशफत्वम् । गोसामान्यस्य द्विशफत्वेनेकशफत्वाभावात् ॥ शब्दगुणमाकाशम् ॥ पतीतादिव्यवहार हेतुः कालः॥ प्राच्या दिव्यवहारहेतुर्दिक् ॥ ज्ञानाधिकरणम् आत्मा । स द्विविधः । जीवात्मा परमात्मा च ॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ॥ चक्षुत्रिग्राह्यो गुणो रूपम् ॥ रसनाग्राह्यो गुणो रसः ॥ घ्राणग्राह्यो गुणो गन्धः ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ॥ एकत्वादित्र्यवहारहेतुः
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148