Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ યશવંત વાકણકર
उभयानुरक्तोऽप्यन्यतरस्यामविकृतो दक्षिणः । यथा
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ।। कपटपटुः शठः । यथा
तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्सम्प्रमाष्टुं मया
साऽऽग्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम् ॥ ज्ञातापराधी(धो)ऽप्यसकोची सृष्टः। यथा
संसक्तकज्जलाधरमागतमालोक्य दयितमतिकोपात् ।
विमुखापि तेन गाढं हठेन साऽऽलिङ्गिता सुतनुः ॥ शृङ्गारो द्विधा सम्भोगो विप्रलम्भश्च । संयुक्तयोराद्यः । यथा---
कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ।। वियुक्तयोरपरः । यथा
अनुरागवर्तिना तव विरहेणोग्रेण सा ग्रहीताङ्गी ।
त्रिपुररिपुणेव गैरी वरतनुर वशिष्टेव ॥ अथ हास्यः । यथा
आकुम्च्य पाणिमशुचिं मम मूनि वेश्या मन्त्राम्भसा प्रतिपदं प्र(पृ)षतैः पवित्रे । तारस्वर प्रहितथूत्कमदात् प्रहार
हा हा हतोऽहमिति रोदिति विष्णुशर्मा। करुणः। यथा
धिग् धातारमपूर्व निर्माय जनं च तेन संयोज्य ।
हा हा विलोपयन्तं तत्रैकं चान्यमुज्झन्तम् ॥ रौद्रः । यथा
कृतमनुमतं दृष्टं वा यरिदं गुरुपातकं मनुजपशुभिनिर्मयादेर्भवद्भिदायुधैः । नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना
मयमहमसृङमेदोमांसः करोमि दिशां बलिम् ॥ वीरस्त्रिधा। तत्र दयावीरः। यथा
अयि विहङ्ग वराककपोतकं विसृज धेहि भूतिं मम मेदसा। शिबिरहं भवता विदितो म किं सकलसत्त्वसमुद्धरणक्षमः ॥
For Private and Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148