SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સિદ્ધાર્થ યશવંત વાકણકર उभयानुरक्तोऽप्यन्यतरस्यामविकृतो दक्षिणः । यथा आयाति याति खेदं करोति मधु हरति मधुकरीवान्या । अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ।। कपटपटुः शठः । यथा तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्सम्प्रमाष्टुं मया साऽऽग्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम् ॥ ज्ञातापराधी(धो)ऽप्यसकोची सृष्टः। यथा संसक्तकज्जलाधरमागतमालोक्य दयितमतिकोपात् । विमुखापि तेन गाढं हठेन साऽऽलिङ्गिता सुतनुः ॥ शृङ्गारो द्विधा सम्भोगो विप्रलम्भश्च । संयुक्तयोराद्यः । यथा--- कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् । प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ।। वियुक्तयोरपरः । यथा अनुरागवर्तिना तव विरहेणोग्रेण सा ग्रहीताङ्गी । त्रिपुररिपुणेव गैरी वरतनुर वशिष्टेव ॥ अथ हास्यः । यथा आकुम्च्य पाणिमशुचिं मम मूनि वेश्या मन्त्राम्भसा प्रतिपदं प्र(पृ)षतैः पवित्रे । तारस्वर प्रहितथूत्कमदात् प्रहार हा हा हतोऽहमिति रोदिति विष्णुशर्मा। करुणः। यथा धिग् धातारमपूर्व निर्माय जनं च तेन संयोज्य । हा हा विलोपयन्तं तत्रैकं चान्यमुज्झन्तम् ॥ रौद्रः । यथा कृतमनुमतं दृष्टं वा यरिदं गुरुपातकं मनुजपशुभिनिर्मयादेर्भवद्भिदायुधैः । नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना मयमहमसृङमेदोमांसः करोमि दिशां बलिम् ॥ वीरस्त्रिधा। तत्र दयावीरः। यथा अयि विहङ्ग वराककपोतकं विसृज धेहि भूतिं मम मेदसा। शिबिरहं भवता विदितो म किं सकलसत्त्वसमुद्धरणक्षमः ॥ For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy