SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સિદ્ધાર્થ યશવંત વાકણકર दृष्टं वासिष्ठं साम । कम्बलेन परिवृतः । काम्बलो रथः । शरावे उद्धृतः शाराव ओदनः । भ्राष्ट्र संस्कृता भ्राष्टा भक्ष्याः । काकानां समूहः काकम् । गाभिणं जनता धूम्या । पितृव्यादयो निपात्याः । पितुीता पितृव्यः । मातुः मातुलः । पितुर्मातुश्च पिता पितामहः मातामहः । व्याकरणमधीते वैयाकरणः । नैयायिकः । मीमांसकः । शिवीनां निवासः शेवः । उदम्बराः सन्त्यस्मिन् देशे औदुम्बराः। वेतस्वान्, नड्वान् । सायं भवे सायन्तनम् । स्त्रध्ने जातः स्रौनः । अश्मनो विकार आश्मनः । दर्दुरशब्दं करोति दार्दुरिकः । धर्म चरति धार्मिकः । धनुः प्रहरणमस्य धानुष्कः । याष्टीकः। अपूपा भक्षणमस्य आपूपिकः । नावा तार्य नाव्यम् । धर्मेण प्राप्यं धर्म्यम् । कर्मणि साधुः कर्मण्यः । आत्मने हितम् आत्मनीनम् । द्वयोः संख्यापूरणः द्वितीयः । चतुर्थः । पञ्चमः । एकादशः । अधीतमनेन अधीती। गावोऽस्थात्र वा सन्ति गोमान् । शुक्लो वर्णोऽस्यास्ति शुक्ल: पटः । मेधावान् । मेधावी । लोमशः । लोमवान् । पामनः । पिच्छिलः । व्रीहिकः । सम्वी । प्रकृष्टरुञ्चरुन्चेस्तमः । अद्रव्यप्रकर्षे उच्चस्तमाम् । आतेशयेन लघुः लघीयान् । लघिष्टः । लघुतरः । लघुतमः । बह्वोर्भावो भूमा लघिमा इत्यादि यथालक्ष्यं तद्धिताः । अभूततद्भावे कृभ्वस्तियोगे च्विः । अकृष्णं कृष्णं करोति कुष्णीकरोति । ब्रह्मीभवति । गङ्गी स्यात् । डाच् । डाचि द्वित्वम् । पटत्-पटत् करोति पटपटाकरोति । इति तद्धिताः॥ ॥ इति सुबोधकुमुदाकरे व्याकरणप्रकरणम् ॥ एवं पदबोधे व्याकरणात सिद्धे पदार्थज्ञानाय काणादशाखशार: सगृह्यते । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः। तत्र द्रव्याणि प्र(पृथिव्यप्तेजोवाखौकाशकालदिगात्ममनांसि नवैव । रूपरसगन्धस्पर्शसंख्यापरिमाणप(पृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्ववत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विशतिर्गुणाः ॥ उत्क्षेपणापक्षेपणाकुञ्चनपसरणगमनानि पञ्च कर्माणि । परमपरं चेति द्विविध सामान्यम् । नित्यद्रव्यवृत्तयो विशेपास्त्वनन्ता एव । समवायस्त्वेक एव । अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोsयोन्याभावश्च ॥ तत्र गन्धवती पृथ्वी। गन्धवत्त्वं लक्षणम् । पृथ्वी लक्ष्या। पृथ्वीत्वं लक्ष्यतावच्छेदकम् । असाधारणधर्मो लक्षणम् । यद्धर्मावच्छिन्न लक्ष्यं स धर्मों लक्ष्यतावच्छेदकः ॥ शीतस्पर्शवत्य आपः ।। उष्णस्पर्शवत्तेजः ॥ रूपरहितस्पर्शवान् वायुः। रूपर हितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् । सति सप्तम्या विशिष्टार्थकतया रूपरहितत्व-विशिष्ट-स्पशवत्वं बोध्यम् । विशेषणानुपादाने स्पर्शवत्वमात्रे लक्षणे कृते थिव्यादित्रिकेऽतिव्याप्तिः । तद्वारणाय विशेषणोपादानम् । तावन्मात्रे कृते आकाशादावतिव्याप्तिः । तत्रापि रूपरहितत्वस्य सत्त्वात् । अत उक्तं स्पर्शेति । अलक्ष्ये लक्षणसत्वमतिव्याप्तिः । यथा--गोः वृङ्गित्वं लक्षणं कृतं चेत् लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिः। तत्रापि शृतित्वस्य सत्वात् । लक्ष्येकशावृत्तित्वमव्याप्तिः । यथा गोर्नीलरूपत्वं लक्षणं कृतं चेत् श्वेतगवि अव्याप्तिः। असम्भवो नाम कुत्रापि क्षणासत्त्वम् । यथा गोरेकशफत्वम् । गोसामान्यस्य द्विशफत्वेनेकशफत्वाभावात् ॥ शब्दगुणमाकाशम् ॥ पतीतादिव्यवहार हेतुः कालः॥ प्राच्या दिव्यवहारहेतुर्दिक् ॥ ज्ञानाधिकरणम् आत्मा । स द्विविधः । जीवात्मा परमात्मा च ॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ॥ चक्षुत्रिग्राह्यो गुणो रूपम् ॥ रसनाग्राह्यो गुणो रसः ॥ घ्राणग्राह्यो गुणो गन्धः ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ॥ एकत्वादित्र्यवहारहेतुः For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy