________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सुबोधकुमुदाकर-
भूविहान ५. सेमिनाथ यासमीत
मा
५
भुक्ते । अलं दत्त्वा । समासे क्यप् । प्रणम्य करोति । कथमायुपपदे णमुलि सिद्धा प्रयोगस्य धातोः प्रयोगः । कथाकार करोति । कथं करोतीत्यर्थः । एवङ्कार [ करोति ] ॥ इति कृत्यप्रक्रिया ॥
एवं धातुभ्यो नामानि सिद्धयन्ते तेषां सुबन्तानाम् एकपद्यायैकविभक्तित्वाय समासः । समसनं संक्षेपण समासः । स च सामर्थ्य सत्येव बोध्यः। परस्परमर्थानुगमनं सामर्थ्यम् । तच्च व्यपेक्षालक्षणमेका भावलक्षणं चेति द्विधा । आद्यं वाक्ये पर समासे । तेनान्तर्वर्तिनी विभक्ति स्थानिवद्भावेनाश्रित्य पूर्वपदान्न सुबुत्पत्तिः समुदायस्यैवार्थवत्वाश्रयणात् । स च केवलो विशेषसंज्ञारहितः । प्रायेण पूर्वपदार्थप्रधानोऽव्ययपूर्वपदोऽव्ययीभावः । प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषः । तद्भेदः कर्मधारयस्तद्भेदो द्विगुः । प्रायेणान्यपदार्थप्रधानो बहुव्रीहिः । प्रायेणोभयपदार्थप्रधानो द्वन्द्वः । प्रथमासमानाधिकरणः कर्मधारयः । संख्यापूर्वो द्विगु: । द्वितीय द्यन्तपूर्वपदस्तत्परुषः। शेषः केवलो यथा-वागर्थाविव । पूर्व भूतो भूतपूर्वः । समासो नित्योऽस्वपदविग्रहः, अनित्यः स्वपदविग्रहः । अन्ययीभावो यथा हरौ । अधिहरि । अस्य प्रायेणाव्ययत्वाद्विभक्तलक् । प्रायेणादन्तात्तु अम् । निर्मक्षिकम् । यथाशक्ति। उपकृष्णम् । समासे टजादयः। समासान्ताः ग्रत्ययाः । उपशरदम् । प्रतिविपाशम् । इत्यव्ययीभावः ।। कृष्ण श्रितः कृष्णश्रितः । शङकुलया खण्ड: शकुलाखण्डः । यूपाय दाह यूपदारु । चोराद् भयं चोरभयम् । राज्ञः पुरुषो राजपुरुषः । अक्षेषु शौण्डोऽक्षशौण्डः ॥ इति तत्पुरुषः ॥ कृष्णश्चासौं सर्पश्च कृष्णसर्पः । नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ लता च रक्तलता ॥ इति कर्मधारयः ॥ पश्चानां गवां समाहारः पञ्चगवम् । दशग्रामी । त्रिफला । पञ्चपात्रम् ॥ इति द्विगुः॥ प्राप्तमुदकं यं सः प्राप्तोदको ग्रामः । ऊढो रथो येन स ऊढरथोऽनड्वान् । उपहृतः पशुर्यस्मै स उपहृतपशुभैरवः । उद्भत ओदनो यस्याः सा उद्धृतोदना स्थाली । पीतमम्बरं यस्य सः पीताम्बरः [हरिः] । वीराः पुरुषा यत्र स वीरपुरुषो ग्रामः ॥ इति बहुव्रीहिः ॥ चार्थयोरितरेतरयोगसमाहारयोद्वन्द्वः । पदश्च गुप्तश्च पटुगुप्तौ। धवखदिरो। हरिहरगुरवः । समाहारे क्लीबमेकवचनं च । शशकुशपलाशम् । दन्तोष्ठम् ॥ इति द्वन्द्वः॥
प्रपतितः पर्णः प्रपर्णः । प्रपतितः पर्णो यस्य स प्रपर्णस्तरुः । शाकं प्रिय यस्य [स]शाकप्रियः, स चासो पार्थिवश्च शाकपार्थिवः । देवान् पूजयतीति कृद्विषयस्तत्पुरुषः । देवपूजको ब्राह्मणः देवब्राह्मणः। एवं सर्वपमासे मध्यमपदलोपः। व्यूढमुरो यस्य स व्यूढोरस्कः । बहिर्लोमानि यस्य स बहिर्लोमः । व्याघ्रस्य पादाविव पादौ यस्य स ब्याघ्रपात् । अत्रोपमानोत्तरपदः समासः । अकारलोपः समासान्तः । पद्ममिव बदनमस्याः सा पद्मवदना । अत्रोपमानपूर्वपदः समासः ॥ इति समासाश्रयविधिः ॥ माता च पिता च पितरी । दुहिता च पुत्रश्च पुत्री । श्वश्रूश्च श्वशुरश्च श्वसु(शु)रौ ॥ इस्येकशेषः ।। इति समासः ॥
अथ तद्धितम् । अपत्याद्यर्थऽण् । अश्वपतेरपत्यादिराश्वपतम् । दित्यादेWः । दितेरपत्यादि दैत्यः । प्राजापत्यः । एवं यञ्-नञ्-स्नादयः । देव्यम् । देवम् । स्त्रेणः । पौंस्नः । अपत्यार्थे इन। दशरथिः । या । गार्ग्यः । बहुत्वे लुक् । गर्गाः। एवं गाायणः । दाक्षायणः । पाण्मातरः । द्वैमातुरः। वैनतेयः । कानीनो व्यासः कर्णश्च । श्वासुर्यः। रैवतिकः । इदमर्थ । पक्षालानामयं राजा पाचालः। कौरवः । पाण्ड्यः । इन्द्रो देवताऽस्य ऐन्द्रम् । सौम्यं हविः । आग्नेयः। कारकात क्रियायोगे । कुडकुमेन रक्तं कोङकुमं वस्त्रम् । पुष्येण युक्तं पौर्ष महः । वसिष्टेन
For Private and Personal Use Only