________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ યશવત વાકણકર
कर्मणि तु-अनुभूयते । अनुभूयेते। इत्यादि रूपाणि । ण्यन्ते-भाव्यते । सनि-बुभूष्यते--यडिबोभय्यते । भावकर्मणोरात्मनेपदम् । इति भावकर्म-प्रक्रिया ।।
कर्मण कर्तृत्वविवक्षायां--पच्यते फलम् , भिद्यते काष्ठमिति कर्मकर्तप्रक्रिया । वर्तमाने लट्-स घटं करोति । परोक्षेऽतीते लिट् । बलिर्बभूव । श्वो भाविनि लुट्-कर्ता कटम् । भाविनि लूट-दान दास्यति । प्रेरणादो लोट् । भज् सेवायाम् । भजतु राम भवान् । अनद्यतनेऽतीते लङ--वद् व्यक्तायां वाचि । धर्ममवदत् साधुः। विध्यूहादौ लिङ । अग्नौ जुहुयात् । स्यादयं साधुः कुलीनत्वात् । अतीते लुङ । अभूद् वृष्टिः । लुङ् क्रियातिपत्तौ भूते भाविनि च । वेदमपठिष्यच्चेत् कर्माकरिष्यत् । वर्तमानसामीप्ये भूते भाविनि च वर्तमानवद् वा । कदागतोऽसि । अयमागच्छामि । आगमं वा । या प्रापणे । कदा यास्यसि । एष यामि यास्यामि वा । इत्यादि लकारार्थप्रक्रिया ॥ कतीर प्रत्यये कर्तुरुक्तत्वात् तत्र प्रथमा । कौणि प्रत्यये कर्मणि प्रथमा। प्रथमान्तानुसारेण पुरुषप्रयोगः । तेन नाम्नि प्रथमान्ते प्रथमः, युष्मदि मध्यमः, अस्मद्युत्तमः । रामः करोति विश्व, रामौ कुरुतः, रामाः कुर्वन्ति । त्वं राम भजसि, युवा राम भजथः, यूयं राम भजथ । णम प्रहरवे। नमति । अहं नमामि रामम्, आवां नमावः, वयं नमामः । युगपत्प्राप्तौ परः पुरुषः, वचनं तु सर्वाभिप्रायम् । स च त्वं च काशी व्रजथः । स चाहं च त्वं च व्रजामः। कर्मणि-कृष्णेन स सुखीक्रियते । त्वं सुखीकियसे । अहं सुखीकिये । आवां रामेण सुखिनो क्रियावहे । इति प्रयोगप्रक्रिया । इत्याख्यातप्रक्रिया ।
__ इतः परं कृत्संज्ञाः प्रत्ययाः । तत्र कृत्यसंज्ञाः । भावकर्मणो धातोस्तव्यानीयरौ । एधितव्यम् एधनीय त्वया । चिञ चयने । चेतव्यश्चयनीयो वा धर्मस्वया । केलिमर च । पचेलिमा माषाः । पक्तव्याः पचनीया वा । करणादौ च । ष्णा शोचे । स्नान्त्यनेन स्नानीय चूर्णम् । दीयतेऽस्मै दानीयो विप्रः । एवं यदादयः । चेयम्, चेतव्यम् । ग्लै म्लै हर्षक्षये। ग्लेयं म्लेयम् । इण् गतो । इत्यः । ष्टुञ् स्तुतौ । स्तुत्यः । मृजूष शुद्धौ । भृज्यः । ण्यत् । धृ धारणे । धार्यम् । मायः । भोज्यं भक्ष्ये । भोग्यमन्यत् । इति कृत्यप्रक्रिया ।।
कर्तरि ण्वुल्तृचौ धातोः । करोति कारकः । कर्त्ता । एवं ल्युणिन्यच् कडादयः । टुनदि समृद्धौ । नन्दनः । ग्रह, उपादाने । ग्राही। पचः, बुधः, मनोज्ञः, कुम्भकारः, प्रियंवदः । मनु बोधने । पण्डितंमन्यः, पण्डितमानी। कर्मकृत् । सुगण् । ताच्छील्ये णिन्याद[यः] । भुज् पालनाभ्यवहारयोः । उष्णं भुनक्तीत्येवंशीलः उष्णभोजी । कर्मणि भूते कनिबादयः । पारं दृष्टवान् पारदृश्वा । युध् सम्प्रहारे । राजानं योधितवान् राजयुद्धा । डः। जनी प्रादुर्भावे । सरसिजं सरोजम् । क्तक्तवतू निष्ठासंज्ञो भूते । कर्तृकर्मभावे क्तः। क्तवतुः कर्तरि । स्नातं मया । कृतस्त्वया धर्मः । गतं त्वया। स गतः काशी गतवान् वा ॥ इति निष्ठा ॥ लटः शतृशानचौ सत्संज्ञौ क्रियायां गम्यायाम् । पचन्नास्ते पचमानो वा । लटश्च । करिष्यन् करिष्यमाणः । तृमादयः शीलादौ । कटं कर्ता । जल्प भाषणे । जल्पाकः । शंस कथने । आशंसुः । क्विप् । आयतं स्तौति आयतस्तुः । उणादयो बहुलम् । वा गतिगन्धनयोः । वायुः । पा रक्षणे । पायुः । तुमनण्वुलौ क्रियायां क्रियार्थायाम् । दृश् दर्शने । द्रष्टुं याति दर्शको वा। भोक्तं समयः । स्त्रियां क्तिन् । कृतिः । स्तुतिः। अप्रत्ययान्तेभ्यः स्त्रियाम् । चिकीर्षा । कारणा । अन्यतोऽपि । इच्छा । ईहा । क्त्वाणमुलौ प्राक् कालादौ । णमुलि द्विःप्रयोगः । पक्त्वा पाचं पाचं वा
For Private and Personal Use Only