SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुबोधकुमुदाकर-२ विधान ५. सेमिनाथ यासात अज्ञात थ ७५ भवेतम् । भवेत । भवेयम् । भवेव । भवेम । आशीलिहि-भूयात् । भूयास्ताम् । भूयासुः । भूयाः। भूयास्तम् । भूयास्त । भूयासम्। भूयास्व । भूयास्म । लुडि-अभूत । अभूताम् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव। अभूम । लुछि-अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः। अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥ एवम्-डुपचश् पाके पचति । चिती संज्ञाने चेतति । इदि परमैश्वर्ये इन्दति । गम्ल गतो-गच्छति । इत्यादीनां रूपाणि रूपावलीतो बोध्यानि । आत्मनेपदे-एध वृद्धौ- एधते। एधेते । एधन्ते ।। इत्यादि बोध्यम् । उभयपदे-राज दीप्तौ । राजति । राजते । इति भ्वादिः ॥ (परस्मैपदे) अद्लू भक्षणे-अत्ति । अत्तः । अदन्ति । इत्यादि। विद् ज्ञाने-वेति । अस् भुवि-अस्ति ॥ आत्मनेपदे-- शीङ स्वप्ने-शेते । उभयपदे-दुइ प्रपूरणे-दोग्धि । दुग्धे। इत्यदादिः॥ हु दानादनयोः-जुहोति । ओहाक् त्यागे--जहाति । माङमाने–मिमीते । डुदास दाने-ददाति । दत्ते इति हादिः (जुहोत्यादिः)। दिव क्रीडादौ-दीव्यति । नृती गात्रविक्षेपे । नृत्यति । पीङ पाने-पीयते । णह बन्धने-नह्यति । नह्यते । इति दिवादिः ॥ षुन अभिषवे-सुनोति । सुनुते । धुञ् कम्पने-धुनोति । धुनुते। इति स्वादिः ॥ तुद व्यथने तुदति । तुदते। कृष् कर्षणे । कृषति । कृषते। कृती छेदने कृन्तति । इषु इच्छायां -इच्छति । इति तुदादिः ॥ रुधिर् आवरणे-रुणद्धि । रुन्धे । युजिर् योगे-युनक्ति । युक्ते । इति रुधादिः ॥ तनु विस्तारे तनोति। तनुते । डुकृञ् करणे-करोति । कुरुते । इति तनादिः ॥ डुकीन् द्रव्यविनिमये--क्रीणाति । क्रीणीते। मीय हिंसायाम्-मीनाति। मीनीते। मुष स्तेयेमुष्णाति । मुष्णीते। अश् भोजने-अश्नाति। अश्नीते। इति क्रयादिः ॥ चुर् स्तेये-चोरयति । चोरयते । गण सल्याने गणयति । गणयते । इति चुरादिः॥ प्रयोजकव्यापार प्रेषणादौ च वाच्ये धातोणिच् । भावयति । ष्टा गतिनिवृत्तौ-एकस्तिष्ठति तमन्यः प्रेरयति-स्थापयति । घट चेष्टायाम्-घटयति । इति ण्यन्तप्रक्रिया ॥ इच्छाकर्मणो धातोरिच्छेककतृकादिच्छायां सन् । पठ व्यक्तायां वाचि-पठितुमिच्छति पिपठिषति। चिकीर्षति । बुभूषति ॥ इति समन्तप्रक्रिया ॥ धातोरेकस्वरात् पौन:पुन्ये भृशार्थे च य । बोभूयते । वृतु वर्तने--वरीवृत्यते । गत्यर्थात् कोटिल्ये यङ्-व्रज गतो। कुटिलं व्रजति वाव्रज्यते ॥ इति यङन्तप्रक्रिया ॥ यङो लग् वा-- बोभवीति । बोभोति । चर्करोति । चेरीकरोति । चरिकरोति । इति । इति यङ्लुकप्रक्रिया ।। इच्छाकर्मण एषितुः सम्बन्धिनः सुबन्तादिच्छायां क्यच । आत्मानं राजानमिच्छति-राजीयति । विद्वांसमिच्छति-विदुष्यति । काम्यच्च-पुत्रकाम्यति । उपमानादाचारे क्यच-विष्णुमिवाचरति बिष्णूयति द्विजम् । नाम्नः कर्तर्याचारे विप क्यङ् च । कृष्ण इवाचरति-कृष्णति । राजानति । पथीनति । श्येनायते काकः । शब्दादिभ्यः करणे क्यङ । शब्दं करोति शब्दायते । कलहायते । वैरायते । नाम्नः क्यच् तत्करोति तदाचष्टे इत्यर्थे । घटमाचष्टे करोति वा घटयति । साधयति । द्राघयति ।। इति नामधातवः ॥ कण्ड्वादिभ्यो यक् स्वार्थे । कण्डू गात्रविघर्षणे । कण्डूयति । कण्डूयते । इत्यादि कण्डवादयः ॥ क्वचिदुपसर्गादर्थविशेषे च पदव्यत्ययः । विश प्रवेशने । विशति । निविशते । विजयते । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः । इति पदव्यवस्था । एवमेते कर्तरि प्रत्ययाः । भावकर्मणोर्यक् सावधातुके । भावे च प्रथमपुरुषस्यैकवचनमेव भावस्यैकत्वात् । त्वया मयाऽन्यैर्वा भूयते । बभूवे । भाविता । भविता। भविष्यते । भाविष्यते । भूयताम् । अभूयत । भाविषीष्ट । भविषीष्ठ । अभावि । अभाविषाताम् । अभाविष्यत । अभविष्यत। For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy