________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
સિદ્ધાર્થ યશવંત વાકણકર अस्मासु १ सप्तमी। इत्यस्मदः ॥ च । वा । ह । वै इत्याद्यव्ययानि त्वेकरूपाणि ॥ प्र । परा। अनु । अवेत्याग्रुपसर्गास्तु धातोः प्राक् प्रयोज्यन्ते ।
" धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्य उपसर्गस्त्रिधा मतः ॥ १ ॥ उपसर्गेण धात्वर्थों बलादन्यत्र नीयते । विहाराहारसंहारप्रतिहारप्रहारवत् ॥ २॥
अथ विभक्त्यर्थाः । नामार्थे सम्बोधने चोक्त कारके प्रथमा। यथा-तटः, तटी, तटम् । हे राम । उक्तत्वं चाख्यातेन कृता समासेन तद्धितेन निपातेन च । धाता करोति। घटः । कृतः । साधनम् । दानीयो विप्रः । उपाध्यायः । पचनी स्थाली । ऊढरथोऽनडान् । कौमं वासः । राम इति तमवेत् ॥ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता। विवक्षितः किम् ? अग्निः पचति, स्थाली पचतीत्यादौ करणाधिकरणयोरपि कर्तृत्वं यथा स्यात् ॥ कर्तुः क्रियायाः साधकतम करणम् । कर्तुः क्रियया व्याप्तुमिष्टतमं कर्म । दानीयत्वेन विवक्षित सम्प्रदानम् । विभागेऽवधित्वेन विवक्षितमपादानम् । आश्रयत्वेन विवक्षितमधिकरणम् । एतानि षट् कारकाणीति सर्वत्र कारकपदं विशेष्यतया योज्यम् । तत्रोक्ते प्रथमोक्ता। अनुक्ते कर्मणि द्वितीया। रामं भजति । कर्तृकर्मणो(करणयो)स्तृतीया । रामेण बाणेन हतो वाली । सम्प्रदाने चतुर्थी स्नातकाय कन्यां ददाति । अपादाने पञ्चमी । अश्वात् पतति । सम्बन्धे षष्ठी। राज्ञः सेवकः । अधिकरणे सप्तमी । वटे शेरते गावः ॥ पदविशेषयोगमात्रेऽपि द्वितीयादयः । राम विना । रामात् बिना। रामेण विना। तम् अन्तरा । नमः कृष्णाय। अधिरामे विश्वम् । एवं यथालक्ष्य बोध्यम् ॥ इति कारकम् ।
अथ क्रियावचनो भ्वादिर्धातुसंशः । धातोापारः क्रिया। धातुश्चात्मनेपदी परस्मैपदी उभयपदी चेति प्रत्ययभेदेन त्रिधा । सकर्मकाकर्मकद्विकर्मकभेदादर्थभेदेन त्रिधा । सेडनिट्चेति कार्यभेदाद् द्वेधा । भ्वादिरदादिर्जुहोत्यादिदिवादिः स्वादी रुधादिस्तुदादिः तनादिः ऋयादिश्रुरादिश्चेति गणभेदाइशधा । लौकिकवैदिकसोत्रभेदाच त्रेधा। धातोर्ललिट्लुट्लट्लेट्लोट्लङ्लिङलुङलुङ इति दश प्रत्ययाः। एषु पञ्चमो लकार छन्दोगोचर एव ॥ तिप् तस् झि सिप् थस् थ मिप् वस् मस् । ता तो झ थासाथा ध्वम् इड़ वहि महिङ । लकारस्यतेऽष्टादशादेशाः । तत्राद्यं नवकं परस्मैपदसंज्ञ, परमात्मनेपदं, द्वयमुभयपदम् । नवकयोः प्रत्येकं त्रिकस्य पुरुषसंज्ञा प्रत्येकं त्रिके चैकादिवचनानि ॥
तत्र(परस्मैपदे) भू सत्तायां धातुः । तस्य लटि-प्रथमपुरुष-भवति । भवतः। भवन्ति । मध्यमपुरुष-भवसि । । भवथः । भवथ । उत्तमपुरुषे-भवामि । भवावः भवामः । लिटि-बभूब । बभूवतुः । बभूवुः। बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम। लुटि-भविता । भवितारौ । भवितारः । भवितास। भवितास्थः । भवितास्थ । भवितास्मि। भवितास्वः । भवितास्मः । लुटि-भविष्यति । भविष्यतः। भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । लोटि-भवतु भवतात् वा । भवताम् । भवन्तु । भव भवतात् वा । भवतम् । भवत। भवानि। भवाव । भवाम। लधि-अभवत् । अभवताम् । अभवन् । अभवः अभवतम् । अभवत। अभवम् । अमवाव । अभवाम । लिहि-भवेत् । भवेताम् । भवेयुः। भवः ।
For Private and Personal Use Only