________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबोधकुमुदाकर-भू २ विद्वान ..सेमिनाथ व्यास
मे अज्ञात यथ
संख्या ॥ मानव्यवहारासाधारणकारणं परिमाणम् । पृथक्त्वव्यवहारासाधारणकारण पृथक्त्वम् । संयुक्तव्यवहारहेतुः संयोगः । संयोगनाशको गुणो विभागः । परापरव्यवहारासाधारणकारणे परत्वापरत्वे॥ आद्यपतनासमवायिकारणं गुरुत्वम् ॥ आद्यस्यन्दनासमवायिकारण द्रवत्वम् ॥ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः॥ श्रोत्रग्राह्यो गुणः शब्दः । सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विधा-स्मृतिरनुभवश्च । संस्कार- . मात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विधा-यथार्थोऽयथार्थश्चेति । तद्वति तत्प्रकारकोऽऽनुभवो यथार्थः । सेव (स एव)प्रमेत्युच्यते । स चतुर्विधः । प्रत्यक्षानुमित्युपमितिशब्दमेदात् । तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशाब्दभेदात् । व्यापारवदसाधारणं कारणं करणम् । कार्यनियतपूर्ववृत्ति कारणम् । प्रागभावप्रतियोगि कार्यम् ॥ कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तमेदात् । यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः । कार्येण कारणेन सहैकस्मिन्नर्थे समवेतत्वे सति कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य । तदुभयभिन्न कारण निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत् त्रिविध कारणमध्ये यदसाधारणं कारणं तदेव करणम् । तत्र प्रत्यक्षज्ञानकरण प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमिन्द्रियं, तदेव प्रत्यक्षं प्रमाणम् ।
अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ॥ यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। अनुमानं स्वार्थ परार्थ चेति द्विविधम् । स्वार्थ स्वानुमितिहेतुः । यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्ते तत् परार्थानुमानम् ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवाः । पर्वतो वहिनमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् ॥ उभयानुमितेलिङ्गपरामर्शः करणम् । वह्निव्यायधूमवानयमिति ज्ञानं लिङ्गपरामशः। स एवानुमानम्। तच्चान्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति त्रिविधम् । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । एकेकाभ्यां परे यत्सत्त्वे यत्सत्त्वमन्वयः । यत्र धूमस्तत्राग्निरित्यन्वयव्याप्तिः । यदभावे यदभावो व्यतिरेकः । यत्र वह्निर्नास्ति तत्र धूमो नास्तीति व्यतिरेकव्याप्तिः । सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः । निश्चितसाध्यवान सपक्षः । यथा तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥ सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । सव्यभिचारोऽनैकान्तिकः । स त्रिविधः-साधारणासाधारणानुपसंहारिमेदात् । साध्याभाववृत्ति: साधारणोऽनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वादिति प्रमेयत्वस्य वन्यभाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं सर्वेभ्यो नित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्यतिरेकद्र()ष्टान्तरहितोऽनुपसंहारी । यथा-सर्वमनित्यं प्रमेयत्वादिति । सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति । साध्याभावव्याप्तो हेतुविरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववदिति । शब्दोऽनित्यः कार्यत्वाद् घटवदिति । असिद्धस्त्रिविधः-आश्रयासिद्धः स्वरूपासिद्धो व्याप्तत्वासिद्धश्चेति । आयो यथा - गगनारविदं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव । स्वरूपासिद्धो यथा-शब्दो गुणः चाक्षुषत्वात् ।
For Private and Personal Use Only