SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० સિદ્ધાથ યશવંત વાકણકર अत्र चाक्षुषत्वं शब्दे नास्ति, शब्दस्य श्रावणत्वात् । सोपाधिको व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्यन्ताभावप्रतियोगित्वं साध्यव्यापकत्वम । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान् वह्निमत्वादित्यत्रान्धसंयोगाभावात् साभ्यव्यापकत्वे सति साधनाव्यापकत्वात् आर्दैन्धनसंयोग उपाधिः । सोपाधिकत्वादहिमत्वं व्याप्यत्वासिद्धम् । यस्य साध्याभावः प्रमाणेन निश्चित: स बाधितः । यथा वह्निरनुष्णः पदार्थत्वात् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शेन प्रत्यक्षेन गृह्यत इति बाधितम् । इति व्याख्यातमनुमानम् ।। उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । यथा गोसदश्यो(शो) गवय इति । आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । शक्तं पदम् । अस्मात् पदादयमर्थो बोद्धव्य इतीश्वर सङ्केतः शक्तिः । विशेष्यतासम्बन्धेन शक्त्याश्रयत्वं शक्यत्वम् । मुख्यार्थबाधे शक्यसम्बन्धो लक्षणा । सा द्विधा-निरूढा प्रयोजनवती च । 'कर्मणि कुशलः' इत्यादौ कुशग्रहणरूपमुख्यार्थस्यायोगात् विवेचकत्वादौ ' शक्यसम्बन्धे रूढितः प्रवृत्तिरिति निरूढ़ा लक्षणा । 'गङ्गायां घोषः' इत्यादौ तु गङ्गातटे घोष इत्याद्यपि प्रयोगसम्भवात् तदनुक्त्वा पावनत्वादिधर्मप्रतिपादनारूपप्रयोजनात् तथा प्रयोगात् प्रयोजनवती लक्षणा । गङगाशब्दस्य प्रवाहः शक्योऽर्थस्तटे तु सम्बन्धः । प्रयोजनं च व्यञ्जनव्यापारगम्यमेवेति व्यञ्जनावृत्तिरप्यवश्य स्वीकर्तव्येति साहित्यविदः । लक्षणयव निर्वाह इति तु तार्किकाः तन्न । अनया कटाक्षेणाभिलाषो व्यज्जित इति व्यवहाराद् व्यजनास्वीकारस्यावश्यकत्वात् । शक्तिलक्षणा] नवबुद्धयर्थबोधिकावृत्तियञ्जन। । तथा च पदं त्रिविधम् । वाचकं लाक्षणिक व्यञ्जकं च । तदर्थोऽपि त्रिधा-वाच्यलक्ष्यव्यङ्गयभेदात् । आकाङक्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाका डक्षा । यथा ददातीत्यत्र' देवदत्तश्चैत्रायगामि "ति कर्तृसम्प्रदानकर्मणामाकाङक्षा । अर्थावबोधो योग्यता । जलेनामिना दहेदित्यत्र जलेन चेदमिना दहेदित्येवान्वयः योग्यत्वात् । पदानामविलम्बोच्चारणं सन्निधिः । अतो गौरश्वः पुरुषो हस्तीति वाक्यं न प्रमाणम् । आकाङक्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणम् । योग्यताविरहात् । प्रहरे प्रहरे अमहोच्चारितानि गामानयेत्यादि पदानि न प्रमाणं सान्निध्याभावात् । वाक्यं द्विविधम् वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात् सर्वमेव प्रमाणम् । लौकिकम् आप्तोक्तं प्रमाणं नान्यत् । वाक्यज्ञानं शाब्दज्ञानं, तत्करणं शब्दः ॥ इति यथार्थानुभवो निरूपित्तः । ___ अयथार्थानुभवस्त्रिविधः-संशयविपर्ययतर्क मेदात् । एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यज्ञान संशयः । यथा-स्थाणुर्वा पुरुषो वेति । मिथ्याज्ञानं विपर्ययः । यथा-शुक्ताविदं रजतमिति । व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा-वहिर्न स्यात् तर्हि धूमोऽपि न स्यात् इति । सर्वेषामनुकूलवेदनीयं सुखम् । सर्वेषां प्रतिकूलवेदनीयं दुःखम् । इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । विहितकर्मजन्यो गुणो धर्म: । निषिद्धकर्मजन्यस्त्वधर्मः । बुद्धयादयोऽष्टावात्ममात्र. गुणास्त एव विशेषगुणाः । संस्कारविविधः-वेगो भावना स्थितिस्थापकश्च । वेगः प्र(पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्ता For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy