SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुबोधकुमुदाकर-भू २ विन. सोमनाथ व्यास ये अज्ञात अथ ८१ दवस्थ्याऽऽपादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः । चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टदेशसंयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टदेशसंयोगहेतुः प्रसारणम् । अन्यत् सर्व गमनम् । नित्यमेकमनेकानुगतं सामान्यम् । पर सत्ता । अपरं द्रव्यसत्त्वादि । नित्यद्रव्यव्यावर्तकाः विशेषाः । नित्यः सम्बम्धः समवायः । अयुतसिद्धः । ययोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ गुणगुणिनौ कियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति । अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्व कार्यस्य सादिरनन्तः प्रध्वंसाभावः । उत्पत्तेः पूर्व कार्यस्य त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽन्यन्ताभावः । यथाभूतले घटो नास्तीति । तादात्म्यावच्छिन्न प्रतियोगिताकोऽन्योन्याभावः । यथा-घटः पटो न भवतीति । सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्थाः इति सिद्धम् । इतिश्री व्यास सोमनाथकृते सुबोधकुमुदाकरे पदार्थबोधनं न्यायप्रकरणम् ॥ वाक्यार्थबोधायावसरसङ्गतं साहित्यशास्त्रं निरूप्यते । वाक्यविशेषो लोकचमत्कारगोचरः काव्यम् । तच्चादोषं सगुणं सालङ्कार सरसं च विशिष्टम् । तत्कारणं प्रतिभा । लोकव्यवहारसर्वशास्त्रकाव्यादिज्ञानाद् व्युत्पत्तिस्तु भूषणम् । व्यङ्गयप्रधानं काव्यं ध्वनिरुत्तमम् । यथा भोः पान्थ पुस्तकधर क्षणमत्र तिष्ठ वेद्योऽसि वा गणकशास्त्रविशारदोऽसि । केनौषधेन मम पश्यति नक्तमम्बा किं वाऽऽगमिष्यति पतिः सुचिर प्रवासी ॥१॥ अत्राम्बाया निशान्धत्वेन प्रोषितभर्तृकाया मम सविसम्भं सम्भोगलब्धिरत्रेति व्यङ्गचं प्रधानम् । गुणीभूते व्यङ्गये तु मध्यमम् । यथा श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि । अत्रोपदिशतीति अनायासेन शिक्षादानं चाच्यवत् स्फुटं प्रतीयते इत्यगूढत्वेन व्यायं गुणीभूतम् । अव्यङ्गयमधमम् । यथा नागविशेषे शेषे शेषेऽशेषेऽपि संहृते जगति । हस्यसि कालं कालं कालं कालं घने स्थितिर्भवतः ॥ इति अस्य दोषानाह---मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्यु : शब्दाद्यास्तेन तेष्वपि सः ॥ हतिरपकर्षः । आद्यग्रहणादर्णरचने । तद्विशेषास्तु दुष्टं पदं श्रुतिकटु च्युतसंस्कृतमप्रयुक्तमसमर्थ निहितार्थमनुचितार्थ निरर्थकमवाचकं त्रिधा-। श्लील सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥ સ્વા ૧૧ For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy