Book Title: Sutra Rahasyam Author(s): Chandrashekharvijay Publisher: Kamal Prakashan View full book textPage 9
________________ आश्रित्य सुखेनैव दोषान् स्मरेयुः । सा च गाथा इयम्। सयणासणन्नपाणे, चेइअजइसिज्जकायउच्चारे। समिभावणागुत्ती, वितहायरणंमि अइयारो ।। अस्या गाथायाः प्रथमं भावार्थ: प्रतिपाद्यते । 1 शयनं, 2 आसनं, 3अन्नं, 4पानं, 5 चैत्यं, 6 यतिः, 7 शय्या, 8कायिका, 9उच्चारः, 10समिति, 11भावना, 12गुप्तिश्च इति द्वादश पदार्थाः । एतेषु पदार्थेषु यद् वितथाचरणं, तद् अतिचारो भवति। वितथाचरणं नाम विपरीतमाचरणम्। एतेषु यत् कर्त्तव्यं तन्न कृतं यच्च न कर्त्तव्यं तत्कृतं, तद् वितथाचरणं, तदेव चातिचार इति । अधुना विस्तरार्थः प्रतिपाद्यते । (1) तत्र प्रथमः पदार्थः 'शयनम्' । * शयनं नाम संस्तारकः, तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं संभवति। * शयनं न प्रतिलेखितं, अविधिना वा प्रतिलेखितम्। * शयनभूमिमप्रमृज्यैव शयनमास्तृतम्।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72