Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
उत्तरंः 'अयमवग्रहो यस्यास्ति स मां अनुजानीहि,येनाहं अत्र कायिकां परिष्ठापयामि' इति हि प्रकृतवाक्यस्यार्थः। अवग्रहो नाम भूमिरेव।
प्रश्नः किमर्थमिदं वाक्यमुच्चार्यते?
उत्तरंः अवग्रहस्य स्वामिनं अननुज्ञाप्य तत्र कायिकापरिष्ठापने स्वाम्यदत्तादानरुपो दोषो भवति, ततश्च तृतीयमहाव्रतं मलिनं भवति। एतद्दोषनिवारणार्थं इदं वाक्यं उच्चार्यते।
प्रश्नः अवग्रहस्य स्वामी यो गृहस्थः तत्पावें गत्वैवावग्रहोऽनुज्ञाप्यः। कायिकापरिष्ठापनकाले प्रस्तुतवाक्योच्चारणेन किं प्रयोजनम् ?
उत्तरंः सत्यम्। अवग्रहस्य स्वामी द्विविधः संभवति, प्रत्यक्षः परोक्षश्च। तत्र प्रत्यक्षो मनुष्यः, परोक्षस्तु मनुष्यो देवश्च। यदि प्रत्यक्षः स्वामी अस्ति, तर्हि प्रथमं तत्पा— एवावग्रहोऽनुज्ञातव्यः। यदि तु 'अवग्रहस्य स्वामी मनुष्यो कोऽस्ति?' इति न ज्ञायते, ज्ञाने वा स बहिर्गतो भवेत्, तदा प्रस्तुतवाक्योच्चारणेन तदनुज्ञा गृह्यते। तथा देवस्तु प्रायः परोक्ष एव, ततश्च तदनुज्ञा त्वावश्यक्येव, तत एतद् वाक्यमुच्चार्यते।
प्रश्नः एतदनुच्चारणे को दोषः?
उत्तरंः अदत्तादानं प्रथमो दोषः। देवस्तु अनुज्ञाग्रहणाऽभावे कदाचित्कुप्येत्, कुपितश्च शरीरे प्रविशेत्, देवाविष्टश्च साधुः संयमादिविनाशं प्राप्नुयात्। अत एव प्रतिक्रमणे 'जिसे खित्ते' इति यस्याः क्षेत्रं' इति

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72