Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
कायिकया सह सम्बन्धस्य विच्छेदः प्रकटीक्रियेत, तर्हि पश्चात्कस्यांश्चिद् विराधनायामपि साधुर्न दोषभाग्भवति, सम्बन्धस्य विच्छेदात्।
एवं तावद् व्यवहारनयेनोक्तम्। निश्चयनयेन तु 'वोसिरे' पदोच्चारणेन साधोः सम्बन्धविच्छेदपरिणामो भवति, तत्परिणामेन च कर्मबन्धो न भवतीति संक्षेपः।
'संथारा पोरिसी भणाव्या विना सूता' इति। रात्रौ पादन्यूनं प्रथमं प्रहरमपगच्छति, तदनन्तरं संथारापोरिसीनामको विधिः कर्तव्यः। स च साधुजने प्रसिद्ध एव ।
पादोने प्रहरे गते सति यदितं विधिमकृत्वैव निद्रायते, यदिवा निद्रां कृत्वा पश्चाद विलम्बेन स विधिः क्रियते, यदि वा प्रदर्शितकालात्प्रागेव तं विधिं कृत्वा निद्रायते, तर्हि दोषो भवति। एते सर्वेऽपि दोषाः प्रस्तुतेन वाक्येन ग्राह्याः।
प्रश्नः वर्तमानकाले यो विधिः प्रसिद्धः, स ओघनिर्युक्त्यादौ न दृश्यते। अधुना 'बाहुवहाणेण' इत्यादि उच्चार्यते, परन्तु पूर्वं तु तदुच्चार्यं नास्ति, अपि तु कर्तव्यमस्ति। अर्थाद् ओघनिर्युक्तौ एतत्प्रतिपादितं यदुत 'एतत्कर्तव्यम्' इति, न तु 'एतद् वक्तव्यम्' इति। अधुना तु तदुच्चार्यते, न तु क्रियते।
उत्तरंः अधुना तन्न क्रियते, एतत्तु न वक्तव्यम्। यथाशक्ति क्रियमाणमपि दृश्यत एव। तस्य बाहुल्यं न दृश्यत इति तु सत्यम्। तस्मादेव कारणात् तादृशविधेः विस्मरणं मा भूद्' इत्येतदर्थं स विधिरधुनोच्चार्यते।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72