Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 65
________________ उत्तरंः सत्यं, किन्तु अत्र स्वाध्यायपदेन सूत्राध्ययनमेव प्रतिपाद्यते, न तु अर्थाध्ययनमिति चतुष्कालमेव स्वाध्यायः सम्भवति। 'प्रतिलेखना आधीपाछी भणावी, अस्तव्यस्त कीधी' इति। प्रतिलेखनं प्राक्पश्चाद् वा कृतं, अविधिसहितं वा कृतम्। __अयं भावः, प्रातःकाले सूर्योदयसमये दण्डकप्रमार्जनं यथा भवेत्, तस्मात्पूर्वं सर्वोपधीनां प्रतिलेखनं समाप्तं भवेत, तथा प्रतिलेखनं प्रारभणीयम्। यदि च तस्मात्पूर्वं पश्चाद् वा प्रतिलेखनं प्रारभ्येत, तर्हि दोषः। एवं सायंकालेऽपि यथाकालं विचार्यम्। तथा शास्त्रोक्तकालेऽपि 'आरभडा सम्मद्दा' इत्यादिदोषैः दुष्टं प्रतिलेखनं न कर्त्तव्यम्। परन्तु यथाविधि करणीयम्। 'आर्तध्यान-रौद्रध्यान ध्याया' इति। आर्तरौद्रध्याने ध्याते। 'धर्मध्यान-शुक्लध्यान ध्याया नहि इति। धर्मध्यानशुक्लध्याने न ध्याते। प्रश्नः शुक्लध्यानं तु क्षपकश्रेण्यामेवाष्टमगुणस्थानादारभ्यैव, ततः कथं तदध्याने दोषः? न हि अशक्यस्याकरणेऽतिचार इति। उत्तरः सत्यं, व्यवहारतः षष्ठगुणस्थानेऽपि शुक्लध्यानसंभव इति तदकरणे अतिचारदोषो भवेदेवेति। 'गोचरीतणा बेतालीश दोष उपजता जोया नहि' इति। गोचरीसम्बन्धिनो ये द्विचत्वारिंशद्दोषा

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72