Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 66
________________ गोचरीचर्यायां उत्पद्यमानास्ते दोषा न दृष्टाः । अर्थाद् गोचरीक्रियायां एष उपयोगो न दत्तः, यदुत 'अत्राधाकर्मादयो दोषाः संजाता न वा ? ' किन्तु प्रमादं निष्ठुरतां वाऽवलम्ब्य यथा तथैव गोचरीचर्या कृतेति । द्विचत्वारिंशद्दोषस्वरुपं तु पिंडनिर्युक्त्यागमादवसेयम्। 'पांचदोष मांडलीतणा टाल्या नहि' इति । गोचरी मंडल्यां अड्. गारधूमादयः पंचदोषा न निराकृताः, अर्थाद् रागेण भक्षितं, द्वेषेण वा भक्षितं, वेदनादिकारणं विना भक्षितं, अधिकं वा भक्षितं, रसोत्पादनार्थं संयोजनं कृत्वा भक्षितम्। 'मात्र अणपूज्य लीधुं, अणपूंजी भूमिकाए परठव्युं । परठवता अणुजाणह जस्सुग्गहो न कीधो, परठव्या पूंठे वार त्रण वोसिरे वोसिरे न कीधुं' इति । एतत्सर्वं रात्रिकातिचारवृत्तौ निरुपितमिति ततोऽवसेयम्। 'देहरा उपाश्रयमांहि पेसतां निसीहि, नीसरतां आवस्सहि कहेवी विसारी' इति । जिनचैत्ये उपाश्रये च प्रवेशकाले 'निसीहि' शब्दभणनं, जिनचैत्यादुपाश्रयाच्च निर्गमनकाले 'आवस्सहि' शब्दभणनं विस्मृतम् । जिनचैत्यं देवावग्रहः, उपाश्रयश्च गुर्ववग्रहः । तत्र प्रवेशोऽप्रमत्तेनैव कर्तव्यः, अन्यथा देवगुर्वाशातनाप्रसङ्गः स्यात्। तथा चाप्रमादप्राप्त्यर्थं दृढोपयोगानयनमावश्यकं तदर्थं 'निसीहि' पदेन अवग्रहबाह्यदेशसम्भविनां 1

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72