Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 68
________________ प्रश्न : श्रावक उपाश्रये प्रविशन्यदि निसीहिप्रयोगं करोति, तर्हि तेन के योगाः परित्यक्तव्याः? उत्तरं : धर्मस्थानेऽनुचिताः सर्वेऽपि योगाः परित्यक्तव्याः, तदत्यागे तस्य निसीहिशब्देन गृहीताया 'अहमत्र सावधयोगान् न सेविष्ये' इति प्रतिज्ञाया भङ्गदोषो भवति। तस्मादपाश्रये तेन गृहकृत्यचिन्ता, व्यापारचिन्ता, गृहकृत्यव्यापारसम्बन्धिवार्तालापः, 'मोबाईल' आदियान्त्रिकसाधनोपयोग इत्यादि सर्वं त्याज्यम्। अन्यथा प्रतिज्ञाभङ्गदोषः स्यात्। तथा उपाश्रये आराधनां कुर्वतां साध्वादीनां अन्तरायोऽपि भवेत्, एवं चैत्येऽपि। तदन्तराये च भवान्तरेऽन्तरायकर्तुराराधनाप्राप्तिः दुर्लभैव स्यात्। तस्मात्परलोकभीरुणा धर्मकाङ्क्षिणा श्रावकेण उपाश्रये चैत्ये च प्रवेशे निसीहिप्रयोगोऽवश्यं कर्तव्यः, तदनन्तरं सावधयोगाश्चावश्यं त्यक्तव्या एवेति। 'जिनभवने चोराशी आशातना गुरुप्रत्ये तैत्रीश आशातना (कीधी)' इति। जिनचै त्ये चतुरशीत्याशातनानामन्यतमाऽऽशातना समादृता, गुरुसम्बन्धिनीनां च त्रयस्त्रिंशदाशातानानामन्यतमाऽऽशातना समादृता। आशातनास्वरुपंच ग्रन्थान्तरादेवावसेयम्। विस्तरभयादत्र नोच्यते। 'अनेरो दिवससंबंधी जे कोई पापदोष लाग्यो होय, ते सवि हं मन-वचन-कायाए करी मिच्छा मि दुक्कडं' इति। एवं तावत्केचिद् दोषाः प्रदर्शिताः, एतेभ्योऽन्येऽपि बहवो दोषाः सन्ति। कियन्तो वक्तुं शक्यन्ते? इत्यतः

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72