Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 67
________________ आशातनाकारणत्वसंभववतां योगानां निरोधो ज्ञाप्यते। तथा गोचरीविहारादि-आवश्यककृत्यं विना साधूनां गमनादिकं नोचितमिति कृत्वा यदोपाश्रयाद् बहिर्गम्यते, तदाऽऽवश्यककार्यार्थमेव गम्यते। तदर्थमेव 'आवस्सहि उच्चार्यते। अर्थात् 'अहं आवश्यककार्थमेव उपाश्रयाद् बहिर्गच्छामि, न त्वन्यथैव' इत्यर्थप्रतिपादकं प्रकृतपदमस्ति। चैत्यगृहा बहिर्निर्गमनेऽपि एतदेव बोध्यम्। प्रश्नः श्रावकोऽऽवस्सहिप्रयोगं निसीहिप्रयोगं च कर्तुमर्हति न वा? उत्तरः निसीहिप्रयोगं तावदवश्यं करोतु, यस्माच्छ्रावकोऽपि चैत्यगृहे उपाश्रये च प्रविशन् यथायोग्यं सर्वानशुभयोगांस्त्यजत्येव, आशातनापरिहारपरायणश्च भवत्येव। परन्तु आवस्सहिप्रयोगे तु तस्य भजना। यस्माद् यदि स पौषधिकोऽस्ति, तर्हि तस्योपाश्रयाद् बहिर्गमनं चैत्यवन्दनार्थं स्थण्डिलगमनार्थं एकाशनकरणार्थ उपाश्रयान्तरस्थितसाधुवन्दनार्थं एवमाद्यर्थं भवति, एवमेव तस्य चैत्यगृहाद बहिर्निर्गमनमपि आवश्यकयोगार्थमेव, ततश्च तदा स आवस्सहिप्रयोगं करोति। यदि तु स पौषधिको नास्ति, तर्हि उपाश्राद बहिर्निर्गमनानन्तरं स संसारकार्याणि करोति, तानि च नावश्यकानि गण्यन्ते, धर्मार्थमेवावश्यकस्येष्टत्वात्। ततश्च तदा स उपाश्रयात् चैत्याद्वा बहिर्निर्गमने न आवस्सहिप्रयोगं करोतीति।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72