Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 50
________________ तथा च प्राक्काले संयमिनो गुरुसकाशादेकवारं तं विधिं ज्ञात्वा कुर्युः, न तु प्रतिदिनमुच्चारयेयुः। अधुना तु तादृशविधिकरणाशक्त्यादिकारणवशात् तं यथाशक्त्येव कुर्युः, न तु सर्वं, किन्तु तत्स्मरणार्थं प्रतिदिनमुच्चारयेयुः। इयं च सामाचारी महापुरुषप्रणीतेति न तस्मिन्विषयेऽन्यत्किंचिद् विचार्यते। एवमेव 'चत्तारि मंगलं' इत्यादि सर्वमपि सूत्रं 'सामाचारी' इति निजभाववृद्ध्यर्थं च वक्तव्यमेव, न तु प्राचीनग्रन्थदर्शनेन व्यामोहः कार्यः। सामाचार्याः कालानुसारेण परिवर्तनसम्भवात्। 'कुस्वप्न लाध्यु' इति। निद्रायां कुस्वप्नं प्राप्तं इति। प्रश्न : कुस्वप्नं नाम किं? उत्तरंः स्वप्ने हिंसादीनि मैथुनभिन्नानि सप्तदशपापस्थानानि आचरितानि दृष्टानि, एतदेव कुस्वप्नम्। प्रश्नः तस्य प्रायश्चित्तं किं? | उत्तरंः 'चंदेसु निम्मलयरा' पर्यन्ताः चत्वारो नामस्तवाः कायोत्सर्गे ध्यातव्या इति प्रायश्चित्तम्। प्रश्नः गुरोः समीपे तस्यालोचनं कर्तव्यं न वा? उत्तरंः अवश्यं कर्तव्यम्। थिणद्धिनिद्रादृष्टान्तेषु साधुभिः स्वप्नदृष्टं हिंसादिकं गुरुसकाशे आलोचितं श्रूयत एव। 'सपनामांहि शियल तणी विराधना हुइ' इति।स्वप्ने शीलस्य विराधनाऽभवत्।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72