Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 59
________________ अत्राऽपि 'ठाणे' इतिपदादारभ्य संकामिआ' इतिपदं यावत् प्राकृतभाषाऽस्ति, तदनन्तरं तु दिवसमांहि' इतिपदादारभ्य गुर्जरभाषायामस्ति अतिचारः। धर्मसंग्रहवृत्तौ महोपाध्यायमानविजयैः 'संकामिआ' पदं यावदेव विवृत्तमस्ति, ततश्च ज्ञायते यदुत तत्काले तावत्पर्यन्तमेव दैवसिकातिचारसूत्रमासीत्। पश्चाद् गुर्जरभाषानिबध्दं अधिकं प्रक्षिप्तं संविग्नगीतार्थैरिति। एतच्च रात्रिकातिचारवृत्तौ प्रतिपादितं अस्माभिः। 'ठाणे' इति, उर्ध्वस्थाने, उपवेशनरुपस्थाने, उत्कटुकस्थाने च... 'कमणे' इति, गमनक्रियायां... 'चंकणमे' इति, अभीक्ष्णं भृशं वा क्रमणं चड्.क्रमणं, तस्मिन्, परिभ्रमण इत्यर्थः... 'आउत्ते' इति, उपयोगपूर्वकं कृते... 'अणाउत्ते' इति, उपयोगरहितं कृते... 'हरिअकायसंघट्टे' इति, हरित्कायस्य = वनस्पतिकायस्य संघट्टो भूतः... 'बीयकायसंघट्टे' इति, बीजकायस्य = मुद्गादिरुपस्य संघट्टो भूतः... 'तसकायसंघट्टे' इति, त्रसकायस्य = द्वीन्द्रियादिरुपस्य संघट्टो भूतः... 'थावरकाय संघट्टे' इति, स्थावरकायस्य = पृथ्वीजलाग्निवायुरुपस्य संघट्टो भूतः... 'छप्पईअसंघट्टे' इति, षट्पदिकायाः = त्रसजन्तुविशेषरुपायाः संघट्टो भूतः...

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72