Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 60
________________ 'ठाणाओ ठाणं संकामिआ' इति, त्रसजीवा एकस्मात्स्थानात्स्थानान्तरं संक्रामिताः। एष तावत्शब्दार्थः प्रतिपादितः। अन्वयार्थस्त्वयम्उपयोगपूर्वकं अनुपयोगपूर्वकं वा स्थानगमनचङ्क्रमणक्रियासु कृतासु यो वनस्पति-बीज-त्रस-स्थावरषट्पदिकासंघट्टो भूतः, यश्च त्रसानां स्थानात्स्थानान्तरं संजातं, तस्य मिच्छा मि दुक्कडं इति। प्रश्नः हरित्कायो बीजकायश्च स्थावरकाय एव, ततश्च स्थावरकायसंघट्टे तयोः समावेशोऽभूदेव, ततः किमर्थं तयोः पृथग् ग्रहणं कृतम्? उत्तरं : सत्यं, परन्तु स्थानादिषु हरित्कायबीजकायसंघट्टप्रसङ्गस्य सम्भवोऽधिकोऽस्ति, तस्मात्तत्प्राधान्यमाश्रित्य तस्य पृथग्रहणं कृतम् । धान्यापणेषु गृहेषु च बीजानि विकीर्णानि भवन्त्येव, एवं यथासंभवं वनस्पतौ अपि वाच्यम्। तथा बीजमपि हरित्काय एव, ततश्च भवदुक्तरीत्या तु तस्यापि पृथग्ग्रहणं न कर्तव्यमेव, परन्त्वत्रापि बीजस्य तृणादिरुपहरित्कायापेक्षया विशिष्टत्वात्तस्य पृथग्ग्रहणं कृतमिति बोध्यम्। अत एव स्थावरकायेषु पृथ्वीचतुष्कमेव गृहीतमस्माभिः, पंचमस्य वनस्पतिकायस्य पृथग्गृहीतत्वात्। एवमेव षट्पदिका त्रसकाये समाविशति, तथाऽपि तत्संघट्टप्रसङ्गस्य अनेकशः संभवादिरुपात्कारणात् तस्य त्रसकायात्पृथग्ग्रहणं कृतमिति सम्भाव्यते।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72