Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
उत्तरः स्थिरोऽध्यावसायो ध्यानं, अस्थिरोऽध्यवसायस्तु चित्तम्। 'मन आहट्ट' इत्यादिना दुर्ध्यानद्वयं निरुपितम्। 'संकल्प' इत्यादिना तु दुश्चित्तद्वयं निरुपितमिति प्रतिभाति।
अथवा 'आहट्ट-' इत्यादि सामान्येन दुर्व्यानवर्णनम्। 'संकल्प...' इत्यादि तु विशेषेण दानवर्णनम्।
'रात्रि सम्बन्धी जे कोई अतिचार लाग्यो होय, ते सवि हं मन-वचन-काया करी मिच्छामि दुलडं' इति।
रात्रिसम्बन्धिनो ये केचिदतिचारा अभवन्, तान् सर्वानपि आश्रित्य मनसा वचसा कायेन च 'मिच्छा मि दुक्कडं' ददामि। अर्थात् 'मनोवाक्कायैः तान्निन्दामि, गर्हामि, पुनर्न करिष्यामि' इति नियमं च गृह्णामीति।
प्रश्नः 'मिच्छा मि दुक्कडं' इत्यस्य कोऽर्थः?
उत्तरः ‘मिथ्या मे दुष्कृतं' इति तस्य संस्कृतछाया। ममेदं पापं निष्कलं भूयात्, दुर्गत्यादिरुपं फलं न स्यात्, इति तु तस्य भावार्थः।
तथा च रात्रिकातिचारवृत्तिः समाप्ता, तथाऽपि किंचिदुच्यते। प्रश्नः प्राकृतगुर्जरभाषामिश्रितमेतत् किमर्थम्?
उत्तरः प्राक्काले तु 'इच्छाकारेण संदिसह भगवन्! राइअं आलोउं?' इत्यादिसूत्रेण प्राकृतभाषयाऽऽलोचनाऽऽसीत्, परन्तु कालक्रमेण बहूनां साधूनां प्राकृतभाषाज्ञानाभावेन प्रस्तुतालोचनायां

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72