Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
रौद्रध्यानम्। तथाहि-कदा शीतं मन्दं भवेत्'? इति शीतकाले, 'कदा वायुरागच्छेत् ?' इत्यादि तूष्णकाले ध्यानमार्त्तध्यानम्। एवमन्यदपि।
मशकादिसत्त्वे तु तन्मारणादिध्यानं रौद्रध्यानम्।
'संकल्पविकल्प हुओं' इति। पापसम्बन्धी निर्णयः संकल्पः, पापसम्बन्धी अनिर्णयात्मको विचारो विकल्प इति। तथाहि- 'कल्येऽहं एतद्भक्षिष्यामि, एतद्वा पास्यामि, अमुकं वा अपशब्दं वदिष्यामि, अमुकां वा स्त्रियं द्रष्टुं तद्गृहे गमिष्यामि' इत्यादिरुपो निर्णयः संकल्पः, सचानुचित इति न करणीयः।
प्रश्नः 'कल्येऽहं गुर्वादिवैयावृत्यर्थं अमुकगृहेऽनुकूलवस्त्वानयनार्थं गमिष्यामि' इति संकल्पो न दुष्टः। ततश्च किं सोऽपि न करणीयः?
उत्तरंः उचितसंकल्पकरणस्य तु निषेधो नास्ति। अत एव तपःस्वाध्यायादिसम्बन्धी संकल्पो न निषिध्द इति।
तथा 'अमुकेन साधुना सह मम कलहोऽभवत्, तत्किं तं साधु तिरस्करोमि न वा?' इति, 'स्वामिवात्सल्ये मिष्टान्नं भविष्यति, तत्किं कल्ये भक्षिष्यामि न वा?' इति। एवमादिरुपो विचारो विकल्पो भण्यते।
प्रश्नः एतौ तु संकल्पविकल्पौ आर्तध्यानादिरुपौ एव, ततश्च 'मन आहट्ट' इत्यादिना तौ संगृहीतौ एव, ततश्च किमर्थं तयोर्भेदेन ग्रहणं कृतम् ?

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72