Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 48
________________ तद्वाक्यमुच्चारणीयम्। प्रश्नः तद्वाक्यं मात्रकसहिते हस्ते सति उच्चारणीयम् ? अन्यथा वा? उत्तरंः हस्ते मात्रकसत्त्वे तद्वाक्योच्चारणे ज्ञानाशातना भवति। तस्मात् कायिकामात्रकं प्रथममधस्ताद् निक्षेपणीयं, तत्पश्चाद् वाक्यमुच्चारणीयम्। तत्पश्चात्कायिकामात्रकं गृहीत्वा कायिका परिष्ठापनीया, तत्पश्चात्पुनः तन्मात्रकं अधस्ताद् निक्षेपणीयम्। तत्पश्चाद् ‘वोसिरे वोसिरे वासिरे' इति उच्चारणीयम्। तत्पश्चान्मात्रकं गृहीत्वा वस्त्रेण शुष्क : करणीय इति। प्रश्नः 'वोसिरे' इतिपदस्य कोऽर्थः? । उत्तरंः 'मया कायिका व्युत्सृष्टा' इत्यर्थः। अर्थात्परित्यक्तेति। प्रश्नः एतत्पदस्योच्चारणं किमर्थं ? । उत्तरः कदाचित्पुत्रो व्यापारे धनं विनाशयति, तदा च तत्पिता एवोत्तमणेभ्यो धनं ददाति। यस्मात्पिता पुत्रस्य सम्बन्धी अस्ति। यदि तु पिता प्रथमत एव सर्वान् ज्ञापयेद् यदुत अयमधुना मम पुत्रो न, तेन सह मम सम्बन्धो विनष्टः', ततश्च तत्पश्चात्पुत्रकृतेऽपि धननाशे पिता न दोषभाग्भवति। एवं यदि कायिकया सह सम्बन्धविच्छेदो न क्रियेत, तर्हि पश्चात् तत्र वर्षादिद्वारा सचित्तजलादिजीवानां कायिकासम्पर्केण विनाशे सति साधुरपि दोषभाग्भवेत्, कायिकया सह तस्य सम्बन्धात्। यदि तु वोसिरे' पदेन

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72