Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
* वस्त्रप्रक्षालनानन्तरं मलिनं जलमविधिना अयतनया वा परिष्ठापितम्। तत्र च पिपीलिकादयो जीवा मृताः। * जलयुक्तं लघु बादरं वा पात्रं अन्यपात्रादिना न स्थगितम्। ततश्च तस्मिन्पात्रे मक्षिकादयो जीवा पतिताः।
* उत्कालितजलशीतीकरणार्थं 'परात-तास' इत्यादिनामकं भाजनं गृहीतं, तत्र च जलं शीतलीकृतम्। 'जलशीतीभवनकालं यावत् तस्मिन्जलयुक्त भाजने कोऽपि जीवो न पतेद्' इत्येतदर्थं प्रयत्नो न कृतः।
* भोजनकालं मुक्त्वाऽन्यस्मिन्काले हस्तप्रक्षालनं कृतम्। * मुखपादादिशरीरावयवानां प्रक्षालनं कृतम्।
* उच्चारादिषु प्रमाणातिरिक्तस्य जलस्योपयोगः कृतः। हस्तद्वयमध्ये यावज्जलं तिष्ठति, तावज्जलं चुलुकप्रमाणमुच्यते। एतादृशानि त्रीणि चुलुकानि उच्चार-शुध्दयर्थं उपयोक्तुं कल्पन्त इति हि सामाचारी। तस्याः पालनं न कृतमिति भावः।
एवमादयो बहवोऽतिचाराः पानविषये सम्भवन्ति। (5) पंचमः पदार्थः 'चैत्यं' अस्ति।
चैत्यं नाम जिनमंदीरं जिनप्रतिमा च। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * चैत्यप्रवेशे निसीहि' पदं निर्गमने च 'आवस्सहि' पदं नोच्चारितम्। * दीपादिप्रकाशे स्पष्टं दृश्यमानेऽपि तत्र चैत्यवन्दनादिकं कृतम्। तेन च तेजस्कायविराधना कृता। 'कम्बलं

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72